पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ६९] रासक्रीडावर्णनम् । २३७ टीरसारवन्नवसौरभुं तव भुजं बञ्चनेन अन्यापदेशेन सञ्चुचुम्ब | तज्जनितम् उरुपुलकाङ्कुरं यस्मिन् ॥ ६ ॥ कापि गुण्डवि सभिवाय निजगण्डमाकुलितकुण्डलं पुण्यपूरनिधिरम्बवाप तव पूगचर्वितरसामृतम् | इन्दिराविकृतिमन्दिरं मनसुन्दरं हि नटनान्तरे त्यामवाव्य दधुरङ्गना: किषु न सम्मदोन्मददशान्तरम् ॥ ७ ॥ कापीति | तव गण्डभुवि निजगण्डम् आचलितकुण्डलं यथा भवति तथा सन्निधाय पूगचर्वितरसामृतम् अमृतमयं वीटिकारसमन्वचाप | सम्मदेन प्रमोदा- तिशयेन उन्मददशान्तरं पूर्वापरानुसन्धान वैधुर्यलक्षणमवस्थान्तरम् ॥ ७ ॥ गानमीश! विरतं कवेण किल बाघमेलनमुपारतं ब्रह्मसम्मदरसाकुलाः सदति केवलं अनृतुरङ्गनाः | नविन व किमपि कुन्तलीमपि च कञ्चुली ज्योतिषामपि कदश्वकं दिवि विलम्वित किमपरं ब्रुवे || ८ || I गानमिति | अङ्गनाः ब्रह्मसन्मदरसेन ब्रह्मानन्दानुभवेरसेन आकुलाः पर- वशा: केवलं सदमि ननुतुः | नर्तनस्य कैवल्यमेवाह - गानमिति । ज्योतिषां ग्रहनक्षत्रादीनां कदम्बकमपि दिवि विलम्बितमित्यनेन सूर्यादयविलम्बात् त्रिया- मायामो द्योत्यते । किमपरं ब्रुचे गानवाचाच प्रमाद: नीवीकुन्तलगा त्रिकाविश्लथ- नानवगतिरित्यादि भुविस्थानां पारवश्यं किमर्थमुच्यत इत्यर्थः ॥ ८ ॥ मोदसीनि भुवनं विलाप्य विवृति समाप्य च ततो विभो ! केलि सम्पूदित निर्मलाइनवधर्मसुभगात्मनाम् | मन्मथासहनचेतसां पशुपयोपितां सुकृतचोदित- स्तावदाकलिंतमूर्तिरादधिथ मारवीरपरमोत्सवान् ॥ ९ ॥ मोदेति ! मोदसीम्नि ब्रह्मानन्दे भुवनं द्रष्टृलोकं विलाप्य मज्जयित्वा १. 'वेन' ग. पाठः. २. 'नाविदनिति' ग. पाठः, ३. 'धी' क. पाठः,