पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वर्णम् । केशेति । केशपाशधृतपिञ्छिकवितति मयूरपिञ्छविरचितः परितः परि दृश्यमानचन्द्रकः शिरोलङ्कारविशेषो यस्य | गण्डमण्डले सञ्चलद् मकुरकुण्डलं यस्य ! हारजालैर्वनमालिकया च ललितं सुन्दरम् | समनुलितैरङ्गरागैः कुङ्कुमा- दिभिः वनं निबिडं सौरभ सौरभ्यं यस्य | पीतचेलोपरि वृतया काञ्चिका मणि- मेखलया अञ्चितं शोभितम् | उदञ्चदंशु उद्धृतमयूखं मणिमयं नूपुरं यस्य | एवं रासकेल्यै परिभूषितं विरचितनैपथ्र्यं तब रूपं कल्यामहे उपास्महे ॥ १ ॥ दशकम् - ६९] - तावदेव कृतमण्डने कलितकलीककुचमण्डले गण्डलोलमणिकुण्डले युवतिमण्डलेऽथ परिमण्डले | अन्तरा सकलसुन्दरीयुगलमिन्दिरारमण ! सञ्चरन् मञ्जुलाँ तदनु रासकेलिमयि कञ्जनाभ! समुपादाः ॥ २ ॥ े, तावदिति । यावद् धृतरासक्रीडोचितवेषो भगवान्, तावदेव कृतं मण्डनं येन | कलिता धृता कञ्चुली गात्रिका यत्र तत् कलित कञ्चुलीकं, तत् कुचमण्डलं यस्य । अथ भूषणानन्तरं परिमण्डले निखातशकुनि समतलदेशे मण्डलाकारेग स्थिते सकलसुन्दरीयुगलमन्तरा द्वयोर्द्वयोर्मध्ये सञ्चरन् तत्कुचकण्ठकपोलादावभि- नये च व्यग्रभुजयुगलतथा सम्यक् चरन् । मञ्जुलां मनोहराम् ॥ २ ॥ वासुदेव! तव भासमानमिह रासकेलिरससौरभ दूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुला | वेषभूषणविलासपेशलविलासिनीशतसमावृता ड नोकतो युगपदागता वियति वेगतोऽयं सुरमण्डली ॥ ३ ॥ वासुदेवेति । रासकेलिरेव रसः सकलेन्द्रियाह्लादकत्वात् तस्य सौरभं मानोज्ञकं श्रीनारदेनागढितं निवेदितम् आकलय्य श्रुत्वा । वेषभूषगविलासेषु पेशलै: विदग्धैः विलासिनीशतैः स्वस्त्रीसहस्रैः । नाकतः स्वर्गात वेगतो युगपद् विमानैर्वियत्यागता सुरमण्डली देवसमूहः || ३ || वेणुनादकृततानदानकलगानरागगतियोजना- लोभनीयमृदुपादपातकृततालमेलनमनोहरम् | १. 'नादक' घ. ड. च. पाट.. + इदं परिमण्डलवि स्थान |