पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्धः - १० - भवानुत्तरमाह- अयि कुमारिका ! नैव शङ्कयतां कठिनता मयि प्रेमकातरे । माय तु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्यृचिवान् भवान् ॥ ८ ॥ अवीति । हे कुमारिकाः ! अबलाः ! प्रेमकातरे या मि कठिनता निष्करुणता नैव शङ्कयताम् । वो युष्माकं मयि चेतसोऽनुवृत्तये मनस्स- माधानाय मयेदं तिरोधानं कृतम् ॥ ८ ॥ अयि निशम्यतां जीववभाः ! प्रियतमो जनो नेशो मम । तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो ! ॥ ९ ॥ अयीति | अयि जीववल्लभाः! प्राणनाथाः! निशम्यतां तत्त्वम् | ममेदृशः प्रियतमो नास्ति यथा भवत्यः । तत् तस्माद् इह यमुनातीरेषु सचन्द्रतया रम्यासु यामिनीषु अनुपरोधं निश्शङ्कं मया सह रम्यतामित्यालपः ऊचिषे ॥ ९ ॥ इति गिराधिकं मोदमेदुरैर्ब्रजवपूजनैः साकमारमन् । कलित कौतुको रासखेलने गुरुपुरीपते ! पाहि मां गदात् ।। १० ।। इतीति | मोदेन मेदुरैः व्याप्तैः । आरमन् क्रीडन् । रासखेलने रासक्री- डायां कलितकौतुकः श्रुतामहः ॥ १० ॥ इति रासक्रीडायां गोपीनां भगवत्समागमादानन्दपारवश्यवर्णनं प्रणयकोपवर्णनं भगवत्कृत सान्त्वनवर्णनं च अष्टषष्टितमं दशकम् अथ रासक्रीडां वर्णयति- केशपाशधृतपिञ्छिकावितति सञ्चलन्मकरकुण्डलं हारजालवनमालिकालंलितमगधनसौरभम् । पीतलतकाञ्चका ञ्चत मुदञ्चदंशुमाणिनूपुरं रासकेलिपरिभूषितं तब हि रूपमीश ! कलयामहे ॥ १ ॥