पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ नारायणीये तथाव्यथासंकुलमानसानां वजाइनानां करुणैकसिन्धो ! । जगत्रयमोहनमोहनात्मा त्वं मादुरासीरयि मन्दहासी ॥ ९ ॥ [स्कन्ध: - १० तथेति । तथाभूतया अनिर्देश्यया व्यथया पीडया संकुलम् आकुलं मानसं यासाम् । जगत्रयीमोहनः काम: तस्यापि मोहन आत्मा मूर्तिर्यस्य स त्वं मन्दहा- सी सन् प्रादुरासीः ॥ ९ ॥ C सन्दिग्धसन्दर्शनमात्मकान्तं त्वां वक्ष्यि तन्व्यः सहसा तदानीम् । किं किं न चक्रुः प्रमदातिभारात् स त्वं गदात् पालय मारुतेश! ||१०|| सन्दिग्धेति । इतः परमपि नाम तं द्रक्ष्यामि न वेति सन्दिग्धं सन्दर्शन 9 यस्य | प्रमदातिभाराद् हर्षावेशेन ॥ १० ॥ इति रासक्रीडायां गोपीनां मदापनोदाय भगवतस्तिरोधानवर्णनं भगवदन्वेषणवर्णनं भगवदाविभीववर्णनं च सप्तषष्टितमं दशकम् | न तव विलोकनार गोषिकाजनाः प्रमदसंकुलाः पङ्कजेक्षण !! अमृतधारया संता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥ १ ॥ तवेति । प्रमदसंकुलाः प्रमोदाकुला: संडता : अभिषिक्ताः स्तिमिततां निश्चलतां दधुः ॥ १ ॥ तदनु काचन त्वत्कराम्बुजं सपदि गृहती निर्विशङ्गितम् । घनपयोधरे सन्निधाय सा पुलकसंवृता तस्थुषी चिरम् ॥ २ ॥ तदन्विति | सपदि दर्शनसमनन्तरमेव इतरासु स्थितासु निर्विशतिं घने निविदे पयोधरे त्वत्कराम्बुजस्पर्शजनितानन्दातिशयानुभावेन पुलकेन संवृता चिरं तस्थुषी स्थितवती ॥ २ ॥ 2 'मीति' क. स्त्र. पाठः,