पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ६७] रासक्रीडावर्णनम् । तिरोहित इति । समं जाततापास्तुल्यसन्तापाः समेताः सहिताः परि- मार्गयन्त्योऽन्वेषमाणाः भवन्तं नापुः किन्तु विषादमापुः ॥ ४ ॥ ता विषण्णतयाचेतनानपि भवन्तं पप्रच्छुरित्याह हा चूत ! हां' चम्पक! कर्णिकार! हा मल्लिके! मालति! बालवल्ल्य! | किं वीक्षितो नो हृदयैकचोर इत्यादि तास्त्वत्प्रवणा विलेषुः ॥ ५ ॥ - हा चूतेति | हे बालवल्ल्यः! युष्माभिर्नोऽस्माकं हृदयैकचोरः किं वीक्षितः। त्वत्प्रवणाः त्वदेकचित्ताः ॥ ५ ॥ निरीक्षितोऽयं सखि ! पकजाक्षः पुरो ममेत्याकुलमालपन्ती | त्वां भावनाचक्षुषि वीक्ष्य काचित् तापं सखीनां द्विगुणीचकार ॥ ६ ॥ निरीक्षित इति । हे सखि ! अयं पङ्कजाक्षः कृष्णः मम पुरो निरीक्षितः प्रत्यक्षीकृतः । भावनाचक्षुषि सङ्कल्पात्मके चक्षुषि प्रत्यक्षमिव त्वां वीक्ष्य सखीनां तापम् आशाजननेन द्विगुणीचकार ॥ ६ ॥ त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रुः किल चेष्टितानि । विचित्य भूयोऽपि तथैव मानात् त्वया विर्युक्तां ददृशुभ राधाम् ॥ ७ ॥ त्वदिति । त्वदात्मिका: भावनाबेलेन स्वन्मयतां गताः तव चेष्टितानि पूतनावधार्जुनभञ्जनादीनि अनुचक्रुः अनुकृतवत्यः । भूयोऽपि त्वां विचित्य अन्वि- प्य यथान्यासां तथैव मानाद् अहमस्यातिप्रियेत्यभिमानात् त्वया वियुक्तां राधां दहशुः ॥ ७ ॥ ततः समं ता विपिने समन्तात् तमोवतारावधि मार्गयन्त्यः | पुनर्विमिश्रा यमुनातटान्ते भृशं विलेपुच जगुर्गुणांस्ते ॥ ८ ॥ तत्त इति । ततः समं तया सह ता गोप्यः बने समन्तात् पर्यन्ततः तमो- बतारावधि चन्द्रास्तमयपर्यन्तं मार्गयन्त्यः अन्वेषमाणाः चिमिश्राः सहिताः विलेपुः सप्रार्थनं सुस्वरं रुरुदुः ॥ ८ ॥ १. 'सु' क. च. पाठः● २. 'प्रकर्षण त्व' क. ग. पाठ:. ३. 'पतं परिमा' ख. पाठः.