पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यते । तासु राधायां भगवतः प्रेमातिशयात् सविशेषं तामसिरमयन्तं भगवन्तं प्रार्थ- "f राधातुङ्गपयोधरसाधुपरीरम्भलोलुपात्मानम् । आराधये भवन्तं पवनपुराधीश ! शमय सकलगदान ।। १० ।। इति रासक्रीडायां गोपीनां भगवत्कृतधर्मोपदेशवर्णने यमुनापुलिने भगवता सह विहारवर्णनं च षट्पष्टतमं दशकम् । स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोगलीलाः । असीममानन्दभरं प्रपन्ना महान्तमा पुर्मदमम्बुजाक्ष्यः ॥ १ ॥ स्फुरदिति । स्फुरत्परानन्दरस आत्मा मूर्तिर्यस्य तेन त्वया समासादिता प्राप्ता भोगलीला रतिक्रीडा याभि: । असीमम् अनवधिम् आनन्दरसं रतिसु- खापरपर्यायं ब्रह्मानन्दं प्रपन्ना महान्तं मदमापुः ॥ १ ॥ तत्प्रकारमाह निलीयतेऽसौ मयि मध्यमायं रमापतिर्विश्वमनोभिरामः । इतिस्म सर्वाः कलिताभिमाना निरीक्ष्य गोविन्द ! तिरोहितोऽभूः || २ || 1 निलीयत इति । असौ कृष्णो मध्यमायं निर्व्याज निलीयते सक्तो भवति । अन्यासु सौजन्याद्यर्थं मायया प्रणयवानिव | अन्या मयि निलीयते । इति कलितो धृतोऽभिमानो यासां ता निरीक्ष्य तिरोहितोऽन्तर्हितोऽभूः ॥ २ ॥ राधाभिषां तावदजातगवमतिप्रियां गोपवधूं मुरारे ! | भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥ ३ ॥ राधेति । अजातगर्वतयातिप्रियाम् ॥ ३ ॥ तिरोहितेऽथ त्वाय जाततापाः समं समेताः कमलायताक्ष्यः । बने बने त्वां परिमार्गयन्त्यो विषादमापुर्भगवन्नपारम् ॥ ४ ॥