पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रासक्रीडावर्णनम् । २२९ चन्द्रेति । चन्द्रकरस्यामृतमयस्य स्यन्दो द्रवः तेन लसन्तीषु सुन्दरीषु य- मुनातीरस्थलीषु गोपीजनानामुतरीयैरापादित उत्पादितः संस्तरो विष्टरो यस्य स त्वं न्यषीद उपविष्टोऽभूः ॥ ५ ॥ दशकम् - ६६] 2 सुमधुरंनर्मालपनैः करसंग्रहणैच चुम्बनोलासैः । गाढालिङ्गसङ्गैस्त्य मङ्गनालोकमाकुलीचकृषे || ६ || 1 सुमधुरेति । सुमधुरैः श्रोत्रानन्दैः नर्मालपनैः क्रीडावचनैः । गाढालिङ्गनैः क्षीरनीरवदङ्गप्रत्यङ्गसंश्लेषणै: आकुलीचकृषे द्रावयामासिथ ॥ ६ ॥ वासोहरणदिने यद् वासोहरणं श्रुतं तसाम् । तदपि विभो! रसविवशस्वान्तानां कान्तसुध्रुवामदधाः ॥ ७ ॥ वास इति । वासोहरणदिने गिरिजार्चनसमातिदिने प्रतिश्रुतं प्रतिज्ञातं वासोहरणं तासां नितम्बप्रदेशाद् वसनाक्षेपम् अदधाः कृतवान् ॥ ७ ॥ कन्दलितधर्मलेश कुन्दमदुस्मेरवकपाथोजम् । नन्दसुत ! त्वां त्रिजगत्सुन्दर नन्दिता बालाः ॥ ८ ॥ कन्दलितेति । कन्दलिता अङ्कुरिताः धर्मलेशाः स्वेदविन्दवो यस्मिन् । कुन्दकुसुमवद् मृदुम्मेरम् अल्पस्मितं वॠपाथोजं वदनपद्मं यस्य । नन्दिता हृष्टाः ॥ ८ ॥ विरहेष्वङ्गारमयः शृङ्गारमयश्व सङ्गमेऽपि त्वम् । नितरामङ्गारमयस्तत्र पुनः सङ्गमेऽपि चित्रमिदम् ॥ ९ ॥ विरहेष्विति । शृङ्गारमयः शृङ्गाररसोचितभाषावेषव्यापारस्त्वं विरहेषु स्त्री- णामकारमयो दहनरूपश्च सन्तापकरत्वात् । सङ्गमेsपि त्वं नितरामङ्गारमय इतीदं चित्रम् | हे अङ्ग! त्वं नितरामरमय इत्येवार्थः ॥ ९ ॥