पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ नारायणीये उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् । अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥ १ ॥ [ स्कन्ध : - १० उपयातानामिति । उपयातानां समीपं प्राप्तानां सुदृशां सुन्दरीणाम् अभि- वाछितं मारोत्सवं विधातुं कर्तुं कृतमतिर्निश्चितबुद्धिरपि प्रथमं ताः गोपीः यामं प्रतिकूलमिव जगाथ उक्तवान् ॥ १ ॥ गगनगतं मुनिनिवई श्रावयितुं जगिथ कुलवधूधर्मम् | धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥ २ ॥ गगनेति । अगिथ उक्तवान् । नन्वनुपनीतस्य कुलवधूभिः कामोत्सबोऽध- मस्तक प्रोक्त कुलवधूधर्मे कथं मुनीनां विश्वास इत्याशङ्कायामाह - धर्म्य खाल्बति । ते ईश्वरस्य वचनं धर्म्यं धर्मादनपेतम् । कर्म तु नो विश्वास्यम् । क्वचि- दधर्मरूपमपि भवति । तेन तव न दोषः, यतो निर्मल:, निर्गुणत्वात् कर्मानधि- कारी त्वम् ॥ २ ॥ आकर्ण्य ते प्रतीपां वाणीमेणीदृशः पर दीनाः । मा मा करुणासिन्धो! परित्यजेत्यतिचिरं विलेपुस्ताः ॥ ३ ॥ आकर्ण्यति । ते तव प्रतीपां 'भवतीनां निशि भर्तॄन् विरहय्येह मत्समी- पागमनम् अनुचितम् । अतस्त्वरितमात्मगृहं याते त्यादिरूपतया प्रतिकूलाम् । दीनाः क्षीणमानसा मा मास्मान् परित्यजेति विलेपुः रोदनपूर्वकमुक्तवत्यः ॥ ३ ॥ तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे! त्वम् । ताभिः समं प्रवृत्तो यमुनापुलिनेषु काममभिरन्तुम् ॥ ४॥ 3 तासामिति । लपितैर्वचनैश्च । ताभिः समं सह कामं यथेच्छम् अभिरन्तुं क्रीडितुं प्रवृत्तः आरब्धः ॥ ४ ॥ चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु । गोपीजनोत्तरीयैरापादितसंस्तरो न्यषदस्त्वम् ॥ ५ ॥