पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रासक्रीडा वर्णनम् । काचिद् गृहात् किल निरंतुमपारयन्त्य- स्त्वामेव देव ! हृदये सुदृढं विभाव्य | देहं विधूय परचित्सुखरूपमेकं त्वामाविशन् परमिमा ननु धन्यधन्याः ॥ ७ ॥ दशकम् - ६५] - काश्चिदिति । काश्चिद् बन्धुभिर्निषिध्यमानतया गृहद् निरेतुं निर्गन्तुम् अपारयन्त्यः अशक्ताः त्वां सुदृढं विभाव्य समाधाय देहं स्थूलं सूक्ष्मं च विधूय त्यक्त्वा । परचिदिति । सच्चिदानन्दाद्वयं परं ब्रह्माविशन् । धन्यधन्याः अतिश- येन भाग्यवत्यः ॥ ७॥ जारात्मना न परमात्मतया स्मरन्त्यो नार्यो गताः परमहंसगति क्षणेन । तत् त्वां प्रकाशपरमात्मतनुं कथञ्चि- चित्ते वहन्नमृतमश्रममवीय ॥ ८ ॥ २२७ जारात्मनेति । जारात्मना जारबुद्धया न परमात्मतया किन्तु केवलमनु- ष्यबुद्ध्या त्वां स्मरन्त्यो नार्यो गोप्यः परमहंसानाम् आत्मानात्मविवेकिनां गतिं मोक्षं गताः प्राप्ता इति यत् तत् तस्मात् प्रकाशपरमात्मतनुं प्रकटीकृतब्रह्मस्व- रूपं त्वां कथाश्चेत् कामाद् द्वेषाद् भयाद्वा चित्ते वहन् चिन्तयन् अमृतं मोक्षम् अनुवीय प्रानुयाम् ॥ ८ ॥ 3 अभ्यागताभिरभितो वजसुन्दरीभि मुग्धस्मिताईबदनः करुणावलोकी । निस्सीमकान्तिजलधिस्त्वमवेक्ष्यमाणो विश्वैकहा ! हर मे परमेश ! रोगान् ॥ ९ ॥ अभ्यागताभिरिति । हे विश्वैकहृद्य ! अभितोऽभ्यागताभिः परिवार्य स्थिताभिः अवेक्ष्यमाणः कटाक्षपात्रीभूतः ॥ ९ ॥ इति रासक्रीडायां गोपीनां भगवत्समीपगमनवर्णनं पञ्चषष्टितमं दशकमेकोनम् ।