पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ नारायणीये ता इति । कान्तोपसेवनपराः भर्तृशुश्रूषापराः ॥ ३ ॥ काबिभिजाङ्गपरिभूषणमादधाना वेणुत्रणादमुपकर्ण्य कृतार्धभूषाः । त्वामागता ननु तथैव विभूषिताभ्य- स्ता एव संरुरुचिरे तब लोचनाय ॥ ४ ॥ [स्कन्धः - १० काश्रिदिति । निजाङ्गपरिभूषणं सर्वावययभूषणम् आदधानाः कुर्बत्यः बेणुप्रणादमुपकर्ण्य त्वामागताः प्राप्ताः काश्चित् । कृतार्धभूषाः वेणुप्रणादमुपकर्ण्य तथैव कृतार्धभूषा एवागताः । तत्र विभूषिताभ्यः सर्वावयवभूषणसविलम्बाभ्यः ताः कृतार्धभूषा एवं एता नत्प्रेमातिशयेन विस्मृतभूषणवैकल्या अहो इति ननु तथ लोचनाय संख्रूचिरे तव नयनरुचिविषया बभूवुरित्यर्थः ॥ ४ ॥ हार नितम्बभुवि काचन धारयन्ती काञ्चीं च कण्ठभुवि देव! समागता त्वाम् | हारित्वमात्मजघनस्य मुकुन्द ! तुभ्यं व्यक्तं वभाष इव मुग्धमुखी विशेषात् ॥ ५ ॥ हारमिति | हारोऽस्त्यस्मिन्निति हारी, तत्त्वं हारित्वं मनोहरत्वं च आत्मनः स्वस्य जघनस्य विशेषान्मनोहरत्वं मुग्धमुखी तुभ्यं भवते बभाष इव ॥ ५ ॥ काचित् कुचे पुनरसज्जितकञ्चुलीका व्यामोहतः परवधूभिरलक्ष्यमाणा | त्वामाययौ निरुपमप्रणयातिभार राज्याभिषेकविधये कलशीधरेव ॥ ६ ॥ काचिदिति । असज्जितकञ्चुलीका असंयोजितगात्रिका | तस्याः परव- धूनां च व्यामोहतः । निरुपमेति । प्रणयातिशयरूपे राज्येऽवस्थाप्याभिषेकाय कुचभररूपकलशीवरेव ॥ ६ ॥