पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रासक्रीडवर्णनम् । तदिह पशुपरूपी त्वं हि साक्षात् परात्मन् ! पवनपुरनिवासिन् ! पाहि मामामयेभ्यः ॥ १० ॥.. दशकम् - ६५] - इति गोविन्दप्राभिषेकवर्णनं वरुणलोकाद् नन्दानयनवर्णनं च चतुष्षष्टितमं दशकम् । गोपीजनाय कथितं नियमावसाने मारोत्सवं त्वमथ साधयितुं प्रवृत्तः | सान्द्रेण चान्द्रमहसा शिशिरीकृताशे प्रापूरयो मुरलिकां यमुनावनान्ते ॥ १ ॥ गोपीति | नियमावसाने गिरिजार्चनवतसमाप्तौ कथित प्रतिज्ञात मारो- त्सवं रासक्रीडादि । यमुनावनान्ते स्थित्वा मुरलिकां वेणुं प्रापूरयः उदैरयः ॥ सम्मूनाभिरुदितस्वरमण्डलाभिः सम्पूर्खयन्तमखिलं भुवनान्तरालम् । त्वद्वेणुनादमुपकर्ण्य विभो ! तरुण्य- स्तत्तादृशं कमपि चित्तविमोहमापुः ॥ २ ॥ २२५ सम्पूर्छनाभिरिति । उदितानि स्वरमण्डलानि प्रयोगभेदाः यासु ताभिः सम्मूर्च्छनाभिः आरोहावरोहणरूपैः सप्तभिः स्वरैः ‘क्रमयुक्ताः स्वराः सप्त मूर्च्छनाः परिकीर्तिताः' इत्युक्तेः । सम्मूर्छयन्तं मोहयन्तम् | तत्तादृशम् अनुपमम् ॥ २ ॥ ता गेहकृत्यनिरता स्तनयप्रसक्ताः कान्तोपसेवनपराच सरोरुहाक्ष्यः | सबै विसृज्य मुरलीरवमोहितास्ते कान्तारदेशमयि कान्ततनो ! समेताः ॥ ३ ॥ १. 'त्मा' ग. घ. ह. च. पाठः,