पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्धः -- १० कदाचिदन्तर्यमुनं प्रभाते स्नायन् पिता वारुणपूरुषेण । नीतस्लमानेतुमगा: पुरीं त्वं तां वारुणीं कारणमर्त्यरूपः ॥ ६ ॥ २२४ कदाचिदिति । अन्तर्थमुनं यमुनायाम् | वारुणपूरुषेण वरुणदूतेन । कार- णमर्त्यरूपः भूमारहरणायोपात्तमनुष्यदेहो वारुणीं पुरीमगाः ॥ ६ ॥ ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातम् । उपागतस्तत्क्षणमात्मगेहं पितावदत् तच्चरितं निजेभ्यः ॥ ७ ॥ ससम्भ्रममिति । जलाधिपेन वरुणेन ससम्भ्रमं त्वदर्शनजातसम्भ्रमं प्रपू- जितः । तातं नन्दम् । तच्चरितं नन्दहरणरूपम् ॥ ७ ॥ हरिं विनिश्चित्य भवन्तमेतान् भवत्पदालोकनबद्धतृष्णांन् । निरीक्ष्य विष्णो ! परमं पदं तद् दुरापमन्यैस्त्वमदी दृशस्तान् ॥ ८ ॥ हरिमिति । एवमादिप्रभावैर्भवन्तं हरिं विनिश्चित्य भवतः पदं परं ब्रह्म, तदालोकने बद्धतृष्णान् परमं पदं ब्रह्म अदहशः प्रदर्शयामासिथ || ८ || स्फुरत्परानन्दर[संप्रवाहमपूर्णकैवल्यमहापयोधौ । चिरं निमनाः खलु गोपसङ्घास्त्वयैव भूमन् ! पुनरुतस्ते ॥ ९ ॥ स्फुरदिति । परमानन्दामृतप्रवाहपूर्ण कैवल्याख्ये महार्णवे ॥ ९ ॥ त्वं श्रीकृष्णः साक्षात् परमात्मैव, भक्तेभ्यः करामलकवत् स्वस्वरूपब्रह्मप्रद- शकस्वादित्याह- करबदरवदेवं देव ! कुत्रावतारे निजपदमनवाप्यं दर्शितं भक्तिभाजाम् । १. 'ष्णो:' क. पाठ:.