पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् -- ६४] गोबिन्दपट्टाभिषेकवर्णनम् । आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः । विश्वेश्वरं त्वामभिमत्य विश्वे नन्दं भवज्जातकमन्वपृच्छन् ॥ १ ॥ १ आलोक्येति । विश्वे सर्वे गोपालकास्तबोच्चैः उत्कृष्टं प्रभावमालोक्य त्वां विश्वेश्वरमवबुध्य नन्दं प्रति भवतो जातकमन्वपृच्छन् । 11 गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः । पूर्वाधिकस्त्वय्यनुराग एषामैषिष्ट तावद् बहुमानभारः ॥ २ ॥ २२३ गर्गोदित इति । तातेन नन्देन गर्गोदित : 'जेप्यति बहुतरदैत्यान्' (द. ४४. श्लो. ८) इत्येवंरूपः तव प्रभावो निजाय वर्गाय गोपसमूहाय निर्गदित उपदिष्टः । ततोऽवमानोदिततत्ववोधः सुराधिराजः सह दिव्यगव्या | उपेत्य तुष्टाव स नष्टगर्वः स्पृष्ट्वा पढ़ाजं मणिमौलिना ते ॥ ३ ॥ तत इति । ततः अवमानेन पराजयेन उदिततत्त्वबोध: मदर्थमवतीर्णो मत्स्वाम्ययमिति | दिव्यगवी सुरभिः, तथा सह ॥ ३ ॥ स्नेहस्तुतैस्त्वां सुरभिः पयोभिर्गोविन्दनामाङ्कितमभ्यषिञ्चत् । ऐरावतोपातदिव्यापाथोभिरिन्द्रोऽपि च जातहर्षः ॥ ४ ॥ , स्नेहेति । स्नेहेन स्नुतैः क्षरितैः सुरभिरभ्यषिञ्चद् अत एव गोविन्दना - माहितम् इन्द्रोऽपि दिव्यगङ्गायाः पाथोभिः जलैः ॥ ४ ॥ जगत्त्रयेशे त्वयि गोकुलेशतयाभिषिक्ते सति गोपवाटः । नाकेsपि वैकुण्ठपदेऽप्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् ॥ ५ ॥ जगदिति । त्वयि गोकुलेशतयाभिषिक्ते सति गोपवाटो नजः नाके स्वर्गे ॥ १. 'वामभिमत्योद्द्यि न' ख. ग. पाठः २. 'शे तथाभि' ग. च. ड. च. पाठ:-