पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये २२२ अहह घाटर्यममुष्य बटोगिरिं व्यथितबाहरसाववरोपयेत् । इति हरिस्त्वयि बद्धविगर्हणो दिवससप्तकमुग्रमवर्षयत् ॥ ७ ॥ [स्कन्ध:- १० अहहेति । व्यथितः प्राप्तसादो बाहुर्यस्य | अवरोपयेद् अधः स्थापयेत् । बद्धविगर्हणः सञ्जातनिन्दः हरिः इन्द्रः दिवससप्तकमुग्रमवर्षयत् ॥ ७ ॥ अचलति त्वयि देव ! पदात पदं गलितसर्वजले च नोकरे । अपहृते मरुता मरुतां पतिस्त्वदभिशती: समुपाद्रवत् ॥ ८ ॥ अचलतीति | त्वयि पदात् स्वस्थानात् पदप्रमाणं देशमपि अचलति अगच्छति सति गलितसर्वजले निस्सारे अत एव मरुता वायुना अपहृते त्वत्सका- शाद् अभिशङ्कितधीभतः । अथवा त्वदभिशकिता विष्णुः स्वयमयमिति सशङ्का धर्यिस्य । समुपाद्रवत् सम्प्राप्तवान् ॥ ८ ॥ शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते । भुवि विभो ! समुपातिधरः प्रमुदितैः पशुपैः परिरेभिषे ॥ ९ ॥ शममिति । उपेयुषि प्राप्तवति । भुवि समुपाहितभूधर: यथास्थानं निक्षि- तगोवर्धनः त्वं परिरेभिषे आश्लिष्टोऽभूः ॥ ९ ॥ १. 'तू त्वद् अ' ख. पाठः धरणिमेव पुरा वृतवानसि क्षितिधरोद्धरणे तव कः श्रमः । इति नुतखिदश: कमलापते! गुरुपुरालय ! पालय मां गदात् ॥ १० ॥ धरणिमिति | पुरा वराहावतारे ॥ १० ॥ इति गोवर्धनोद्धरणवर्णनं त्रिषतिमं दशकम् ।