पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् -- ६३] गोवर्धनोद्धरणवर्णनम् । कुल इति । इह् कुले गोत्रः पर्वतो दैवतम् । स गोबर्धनो गोत्रशत्रोरिन्द्रा- ज्जातां विहतिं नाशं रुन्ध्यात् । अस्मिन् मदुक्ते वः कः संशयः, यतो गोत्राणाद् गोत्रो गोवर्धन इति चास्य संज्ञा | उदमुमूल उन्मूलितवानसि ॥ ३ ॥ तदनु गिरिवरस्य योद्धृतस्यास्य तावत् सिकतिलमृदुदेशे दूरतो वारितापे । परिकरपरिमिश्रान् धेनुगोपानधस्ता- दुपनिदधदधत्था हस्तपद्मेन शैलम् ॥ ४ ॥ तदन्विति । सिकतिले वालुकामाये मृदुनि लिग्धे देशे वारिता बहिष्कृता आपो यस्मात् तत्र गिरिवरस्याधस्तात् परिकरैः शिक्यभाण्डादिभिः परिमिश्रान् उपनिदधत् प्रवेशयन् अधत्था धृतवान् ॥ ४ ॥ भवति विधृतशैले बालिकाभिर्वयस्यै- रपि विहितवित्लास केलिलापादिलोले । सविधमिलितधेनूरेकहस्तेन कण्डू- यति सति पशुपालास्तोष पन्त सर्वे ॥ ५ ॥ भवतीति । केलिलापादौ क्रीडासलापादौ लोले सकुतुके तोषं सन्तोषमै- षन्त । बालिकाबालनर्मालापैकहस्तधेनुकण्डूयनादिभिरपगताचलपतनमयाः सन्तोषं प्राप्ता इत्यर्थः ॥ ५ ॥ अतिमहान् गिरिरेष तु वामके करसरोरुहि तं धरते चिरम् । किमिदमद्भुतमद्रिवलं न्विति त्वदवलोकिभिराकथि गोपकैः ॥ ६ ॥ अतीति । करसरोरुहि कराब्जे धरते दधाति, किमिदमदेवलं पक्षरहित- स्याप्युड्डयनशक्तिर्नु इत्याकथि कथ्यते स्म ॥ ६ ॥ १. 'वा (च्य? स्य) सं ख. पाठः.