पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० नारायणीये सुरेन्द्र: क्रुद्धवेद् द्विजकरुणया शैलकृपया- प्यनातकोऽस्माकं नियत इति विश्वास्य पशुपान् । अहो किं नायातो गिरिभिदिति सञ्चिन्त्य निवसन् सरुदेहाश! मणुद सुरवैरिन् ! मम गदान् ॥ १० ।। सुरेन्द्र इति । आतङ्कात् सङ्कटादन्योऽनातङ्कः सुखं नियतो निश्चितः । गिरिभिदिन्द्रः कुपितः किं नायात इति सञ्चिन्त्य निवसन् | प्रणुद त्यज ॥ १० ॥ इति इन्द्रयागविघातवर्णनं द्विषष्टितमं दशकम् | दहशिरे किल तत्क्षणमक्षतस्तनितज्जृम्भितकम्पितदितटाः । सुषमया भवदङ्गतुलां गता ब्रजपदोपरि वारिधरास्त्वया ॥ १ ॥ दाशर इति । अक्षतेनाविच्छिन्नेन स्वनितेन जृम्भितेन मेवव्याप्त्या च कम्पिता दिक्तटाः तत्स्थाश्चराचरा यैः । सुषमया शोभया भवदङ्गस्य तुलामुपमां गता बारिधरास्त्वया अजपदस्य त्वद्गृहस्योपरि दहशिरे अदृश्यन्त ॥ १ ॥ विपुलकरकमिस्तोयधारानिपाते- दिशि दिशि पशुपाना मण्डले दण्ड्यमाने । कुपितहरिकृतानः पाहि पाहीति तेषां वचनमजित ! शृण्वन् मा बिभीतेत्यभाणीः ॥ २ ॥ विपुलेति । विपुलकरकमि: स्थूलजलशर्करामिक्षैः । कुपितेन हरिणेन्द्रेण कृताद् वर्षादिति शेषः । मा विभीत भयं मा कुरुलेत्यभाणीरवादीः ॥ २ ॥ कुल इद्द खलु गोत्रो दैवतं गोत्रशत्रो- विहतिमिह स सन्ध्यात् को नु वः संशयोऽस्मिन् | इति सहसितवादी देव! गोवर्धनाद्रि त्वरितमुदमुमूलो मूलतो बाल! दोर्भ्याम् ॥ ३ ॥