पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ६२] इन्द्रयागविघातवर्णनम् | २१६ कारमवोचः । इह मे निगदितं किं वितथमसत्यम् । अयं मूर्तिमत्त्वेन दृश्यमानो गोत्रो गोवर्धनाख्यो गोत्रद्विष इन्द्रे चापि कुपिते रक्षितुमलं शक्तः ॥ ६॥ परिमीता याताः खलु भवदुपेता ब्रजजुषो वर्ज यावत् तावन्निजमखविभङ्गं निशमयन् | भवन्तं जानन्नप्यधिकरजसाक्रान्तहृदयो न सेहे देवेन्द्रस्त्वदुपरचितात्मोन्नतिरपि ॥ ७ ॥ परिश्रीता इति । निजमखविभङ्गं निशमयन् शृण्वन् भवन्तं श्रीकृष्णं विष्णुं जाननपि अधिकरजसा तत्कार्यरागादिभिराकान्तं हृदयं यस्य सः निजम खविभङ्गं न सेहे । त्वदुपरचिता त्वत्कृता आत्मोन्नतिरैन्द्रं पदं यस्य ॥ ७ ॥ मनुष्यत्वं यातो मधुभिदपि देवेष्वविनयं विधत्ते चेनष्टस्त्रिदशसदसों कोऽपि महिमा | ततश्च ध्वंसिष्ये पशुपहतकस्य श्रियमिति प्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधिः ॥ ८ ॥ मनुष्यत्वमिति | मधुभिद् विष्णुरपि मनुष्यत्वं या तो निकृष्टो जातः । अयं मधुभिच्चेद् देवेष्वविनयं न विधत्ते, यदि चद् विधत्तं तर्हि न मधुमिदय मिति भावः । एवं चेत् त्रिदशसदसां देवसभानां कोऽप्यनिर्देश्यो महिमा नष्ट एव । पशुपहतकस्य गोपालाघमस्य कृष्णस्य || ८ || त्वदावासं हन्तुं प्रलयजलदानम्बरभुवि महिण्वन् विभ्राण: कुलिशमयमभ्रेभगमनः ।. मतस्थेऽन्यैरन्तर्द हनमरुदाद्यैर्विहसितो भवन्माया नैव त्रिभुते ! मोहयति कम् ।। ९ ।। त्वदिति । प्रहिण्वन् मुञ्चन् अत्रेभगमन ऐरावतमारूढः अन्यैर्दहनमरुदा- द्यैरग्निवाय्वादिभिरन्तर्हदि विहसितः परिहसितः । भवन्माया के नैव मोह- यति ॥ ९ ॥ १. 'न मो' ग. पाठः.