पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इतीति | धिग् अहो अन्धपरम्परा महतां मनोऽपि स्पृशति, यतो मघ- बजनिता वृष्टिरित्येतन्नो सत्यम् । यद् यस्माजवानामदृष्टं कर्मफलं खलु वृष्टिं सृजति, न मघवा । सोऽप्यनैवेन्द्रं पदमाप्तः । अत्र हेतुमाह - महारण्य इति । अकृतेन्द्रयागानां वृक्षाणामपि वृष्टिकृतयोगक्षेमदर्शनादित्यर्थः ॥ ३ ॥ इदं तावत् सत्यं यदिह पशवो नः कुलधनं' तदाजीव्यायासौ बलिरचलभर्त्रे समुचितः । सुरेभ्योऽप्युत्कृष्ट ननु धरणिदेवाः क्षितितले ततस्तेऽप्याराध्या इति जगदिथ त्वं निजजनान् ॥ ४ ॥ इदमिति । यदिहोक्तं पशवो नः कुलघनमिति, तदिदं तावत् सत्यम् । अतस्तदाजव्याय तृणसलिलसम्पत्तयेऽसौ प्रारब्धो बलिरचलम गोवर्धनाय, यतोऽचलो नस्तृणं जलं च ददाति, अतः समुचितः । फिञ्च धरणिदेवा ब्राह्मणाः, अतस्तेऽप्याराध्या: पूजनीया इति जगदिथ ॥ ४ ॥ भवद्राचं श्रुत्वा बहुमतियुतास्तेऽपि पशुपा द्विजेन्द्रानर्चन्तो बलिमददुरुचैः क्षितिभृते । व्यधु: मादक्षिण्यं सुभृशमनमन्नादरयुता- स्त्वमाद: शैलात्मा बलिमखिलमाभीरपुरतः ॥ भवदिति । उच्चैः पूर्वस्माद् विशिष्टबहुसाधनोपबृंहितं बलिं पूजां अददुः । व्यधुर्विदधिरे | त्वं शैलात्मा शैलवदतिमहद् वपुगृहीत्वा आभीराणां गोपानां पुरतः शैलोऽस्मि प्रसन्नोऽस्मीति ब्रुवन् बलिमाद: अभुङ्क्थाः ॥ ५ ॥ अवोचश्चैवं तान् किमिह वितथं मे निगदितं गिरीन्द्रो नन्वेषं स्ववलिमुपभुङ्क्ते स्ववपुषा । अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलं समस्तानित्युक्ता जहपुरखिला गोकुलजुषः ॥ ६ ॥ अवोच इति । रूपान्तरेण गोपसमूहस्थश्च त्वं तान् गोपानेवं वक्ष्यमाणम-