पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इन्द्रयागविघातनम् | २१७ निरूप्य दोषं निजमङ्गनाजने विलोक्य भक्ति च पुनर्विचारिभिः | मबुद्धतत्त्वैस्त्वमभितो द्विजैर्मरुत्पुराधीश! निरुन्धि मे गढ़ान् । १० ।। दशकम् – ६२] - निरूप्येति । निजं दोषमङ्गनाजने भक्ति च निरूप्य प्रबुद्धं तत्त्वं यैस्तै- द्विजैरभिष्टुतः ॥ १० ॥ इति यज्वपत्न्युद्धरणवर्णनमेकषष्टितमं दशकम् । कदाचिद् गोपालान् विहितमखसम्भारविभवान् निरीक्ष्य त्वं शौरे ! मघवमदमुद्ध्वंसितुमनाः | विजाननप्येतान् विनयमृदु नन्दादिपशुपा- नपृच्छ: को वार्य जनक ! भवतामुद्यम इति ॥ १ ॥ कदाचिदिति | विहिता उपार्जिता मखसम्भारविभवा इन्द्रयागसाधनरू- पपदार्था यैस्तानेतान् नन्दादिपशुपान् विनयेन मृदु अनुद्धतं यथा भवति तथा अपृच्छः ॥ १ ॥ बभाषे नन्दस्त्वां सुत ! ननु विधेयो मघवतो मखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् । नृणां वर्षायत्तं निखिलमुपजीव्यं महितले विशेषादस्माकं तृणसलिलजीवा हि पशवः || २ || बभाष इति । उपजीव्यं सस्यादि । अस्माकं पशुवृत्तीनां विशेषाद्, यत- `स्तृणसलिलजीवनाः पशवः ॥ २ ॥ इति श्रुत्वा वाचं पितुरयि भवानाह सरसं धिगेतो सत्यं मघवजनिता दृष्टिरिति यत् । 'अदृष्ट जीवानां सृजति खलु दृष्टिं समुचितां महारण्ये वृक्षाः किमिव बलिमिन्द्राय ददते ॥ ३ ॥