पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ६१] यज्वपत्न्युद्धरणवर्णनम् । इति नन्वनुगृह्य वल्लवी विपिनान्तेषु पुरेव सञ्चरन् । करुणाशिशिरों हरे ! हर त्वरया मे सकलामयावलिम् ॥ ११ ॥ इतीति । करुणया भक्तवात्सल्येन शिशिर आर्द्रहृदयः ॥ ११ ॥ इति गोपीवस्त्रापहारवर्णनं षष्टितमं दशकं सैकम् । ततश्च वृन्दावनतोऽतिदूरतो वनं गतस्त्वं खलु गोषगोकुलैः । हृदन्तरे भक्ततर द्विजाङ्गनाकदम्बकानुग्रहणाग्रहं बहन् ॥ १ ॥ २१५ तत इति । बृन्दावनतो वृन्दावनादतिदूरतोऽतिदूरे ॥ १ ॥ ततो निरीक्ष्याशरणे वनान्तरे किशोरलोकं क्षुषितं तृषाकुलम् । अदूरतो यज्ञपरान् द्विजान प्रति व्यसर्जयो दीदिवियाचनाय तान् || तत इति । अशरणे गृहरहिते किशोरलोकं बालजनं तृषा पिपासया क्षुधा चाकुलम् । अदूरतस्तरप्रदेशात् समीपे यज्ञारात् कर्मप्रधानतया भक्ति- ज्ञानविमुखान् दीदिवियाचना यान्त्रयाचनाय तान् गोपान् व्यसर्जयः प्रेषयामा- सिथ ॥ २ ॥ गतेष्वथो तेष्वभिवाय तेऽभिधां कुमारके बोदनयाचिषु प्रभो! | श्रुतिस्थिरा अध्यभनिन्युरश्रुतिं न किञ्चिदूचुश्च महीसुरोत्तमाः ॥ ३ ॥ गतेष्विति । तेऽभिधां कृष्णो व ओदनं याचत इति तव नामाभित्राय | श्रुतौ स्थिरा निश्चितबुद्धयोऽप्यश्रुतिं श्रवणाभावमभिनिन्युरभिनीतवन्तः । महीसुरो- त्तमा ब्राह्मण श्रेष्ठम्मन्याः किश्चिद् दास्यामि नेति वा नोचुरपि ॥ ३ ॥ अनादरात् खिन्नधियो हि वालकाः समाययुर्युक्तमिदं हि यत्व | चिरादभक्ताः खलु ते महीसुराः कथं हि भक्तं लयि तैः समर्पते ॥ ४॥ . अनादरादिति । यज्वसु यायजूकेवमर्थिनिराकरणं युक्तम् । भक्त- मन्त्रम् ॥ ४ ॥