पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ नारायणी ये [स्कन्ध: - १० मृदु स्मितं यस्मिस्तस्त्वयि बुवति सति वधूजनैर्व्यामुमुहे तत् कर्तुं मा मैवमिति वदितुमप्यसमर्था बभूवुरित्यर्थः ॥ ६ ॥ आये जीद-चिरं किशोर ! नस्तव दासीरवशीकरोषि किम् । प्रदिशाम्बरमम्बुजेक्षणेत्युदितस्त्वं स्मितमेव दत्तवान् ॥ ७ ॥ अयीति | अयि किशोर! कुमारक! त्वं चिरं जीव, तब दासीः प्रोक्त- कारिणीर्नः किं किमर्थमवशीकरोषि परवशाः करोषि, अम्बरं प्रादेश देहीत्यु- द्वितो याचितःत्वं स्मितमेव दत्तवान् नाम्बरमपि | अयि किशोर! अप्राप्तविवाह! तब दासी: प्रेमा: किमवशीकरोषि वशीकुरु परिगृहाण, अम्बरं प्रदिश, नः पतिस्त्वं, हे अम्बुजेक्षण! कटाक्षविरहे वयं पराधीनजीविता इति सामिप्रा- यमिवोदितत्वात् त्वं तदनुमोदनरूपं मन्दस्मितं दत्तवान् ॥ ७ ॥ अधिरुह्य तटं कृताञ्जली: परिशुद्धा: स्वगतीर्निरीक्ष्य ताः । वसनान्यखिलान्यनुग्रहं पुनरेवं गिरमध्यदा मुदा ॥ ८ ॥ अधिरोति । परिशुद्धाः त्वन्नमनरूपप्रायश्चित्ताद् विवस्त्रालवनरूपव्रत- भदोषानिवृताः स्वगतीरामशरणाः । अनुग्रहरूपामेवं वक्ष्यमाणरूपां गिरमप्यदा: दत्तवान् ॥ ८ ॥ विदितं ननु वो मनीषित बदितार स्त्विह योग्यमुत्तरम् । यमुनापुलिने सचन्द्रिका क्षणदा इत्यवलास्त्वमूचिवान् ॥ ९ ॥ विदितमिति | मनीषितं सङ्कल्पः । इह वो मनीषिते योग्यमुत्तरं तथा- स्त्विति इदानीं नाहं चढामि । किन्तु यमुना पुलिने सचन्द्रिकाः क्षणदा भवतीभ्यो योग्यमुत्तरं केवलं क्रिययैव वदितारो चदिव्यन्तीति ॥ ९ ॥ उपकर्ण्य भवन्मुखच्युतं मधुनिष्यन्दि वचो मृगीदृशः । प्रणयादयि वीक्ष्य वीक्ष्य ते बदनाब्जं शनकैगृहं गताः ।। १० ।। उपकर्ण्यति | उपकर्ण्य श्रोत्राञ्जलिभिः पीत्वा ॥ १० ॥