पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोपीवापारवर्णनम् | मदनातुरचेतसोऽम्बई भवद कवियदास्यकाम्यया । यमुनातटसीलि सैकती तरलाक्ष्यो गिरिजां समाचिचन् ॥ १ ॥ दशकम् - ६०] - २१३ मदनेति । सैकती सिकतामयी प्रतिमां समार्चिचन् पूजयामासुः ॥ १ ॥ 1 तब नामकथारताः समं सुदृशः प्रातरुपागता नदीम् । उपहारशतैर पूजयन दयितो नन्दसुतो भवेदिति ॥ २ ॥ तवेति । तव नाम्नि कथायां च रत्ता नाम कीर्तयन्त्यः कथाः कथयन्त्यश्च समं सम्भूयोपहारशतैर्जलगन्धपुष्पधूपादिभिर्नन्दपुतो दायतो भयोदेति प्रार्थयन्त्य इति शेषः ॥ २ ॥ इति मासमुपाहितव्रतास्तरलाक्षीरभित्रीक्ष्य ता भवान् । करुणामृदुलो नदीतदं समयासीत् तदनुग्रहेच्छया ॥ ३ ॥ इतीति । उपाहितव्रता धृवत्रताः ॥ ३ ॥ नियमावसितौ निजाम्बरं तटसीमन्यवमुच्य तास्तदा । यमुनाजलखेलनाकुलाः पुरतस्त्वामवलोक्य लजिताः ॥ ४ ॥ नियमेति | नियमावसितौ व्रतावसाने निजाम्बरमवमुच्य नमा यमुनायां जलखेलन उदकवाद्यादावाकुलश्चलिताः ॥ ४ ॥ त्रपया नमिताननास्वथो वनितास्वम्बरजालमन्तिके | निहितं परिगृह्य भूरुहो विटपं तं तरसाधिरूढवान् ॥ ५॥ त्रपयेति । त्रपया दयितसन्निधौ विवस्त्रताजनितलज्जया । भूरुहो वृक्ष- इह तावदुपेत्य नीयतां वसनं वः सुदृशो ! यथायथम् । इति नर्ममृदुस्मिते त्वयि ब्रुवति व्यामुमुहे वधूजनैः ॥ ६ ॥ इहेति । हे सुदृशः ! इहोपेत्य वो वसनं यथायथं स्वं स्वं नीयताम् | नर्मणा