पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ नारायणीये निर्विशङ्कभवदनदर्शिनी: खेचरी: खगमृगान् पशूनपि । त्वत्पद्मृणयि काननं च ता धन्यधन्यमिति नन्वमानयन् ॥ ७ ॥ [स्कन्ध :- १० निर्विशङ्केति । निर्विशङ्कभवदनदर्शिनीस्तिरस्कृतशरीरतया सन्निहिततया निमेषरहिततया च नित्यं भवदङ्गप्रत्यङ्गदर्शनशीलाः । त्वत्पदप्रणाये भवत्पदाम्बु- जसंसार्गे काननमपि धन्यधन्यम् अतिशयेनू भाग्यवदिति ता वजस्थाः पशुपा- जना अमानयत् ॥ ७ ॥ आपिबेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा | दूरतो बत कृतं दुराशयेत्याकुला मुहुरमा समामुहन् ॥ ८ ॥ आपिबेयमिति | येणुना भुक्तो रसावशेषो यस्मिन् तदधरामृतम् । तद् दूरतोऽस्माकं न सम्भवति । तत्र दुराशया कृतमलम् । समामुहन् सम्मुमुहुः ॥ ८ ॥ प्रत्यहं च पुनरित्यमङ्गनाश्चित्तयोनिजनितादनुग्रहात् । बद्धरागविवशास्त्वयि प्रभो ! नित्यमापुरिह कृत्यमूडताम् ॥ ९ ॥ प्रत्यहमिति । अनुग्रहाद् न तूपद्रवात् । कुतः, यतस्त्वयि बद्धरागवि- बशाः शृङ्गाराख्यप्रेमलक्षणभक्तिविवशा इह कृत्यमूढताम् इदं मयैव कर्तव्यमित्य- वधारणविधुरतामापुः ॥ ९॥ रागस्तावज्जायते हि स्वभावान्मोक्षोपायो यत्नतः स्यान्न वा स्यात् । तासां त्वेकं तद् द्वयं लब्धमासीद् भाग्यं भाग्यं पाहि मां मारुतेश ! |॥१०॥ राग इति | रागस्तावत् स्त्रीणां पुंसां वा मिथः स्वभावादेव जायते । मोक्षोपायस्त्वीश्वरे प्रेम केषाञ्चिदेव प्रयत्नतः स्याद्वा न वा । तासां व्रजाङ्गनानां तयं कामसुखदं कान्तप्रेम मोक्षसुखदमीश्वरप्रेम चैकं लब्धमासीद् एकस्य कृष्णस्यैव कान्तत्वादीश्वरत्वाञ्च | अहो भाग्यं भाग्यम् ॥ १० ॥ इति वेणुगानवर्णनम् एकोनषष्टितमं दशकम् । १. 'मुहुरि' क. पाठः २. 'त्रिरुप' ख. ग. पाठ:.