पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुवर्णनम् । बवृतिरे स्थिता आसन् । भगवता योगेश्वर्येण पूर्वस्थानं नीतास्त इति ज्ञान- व्यम् ॥ ५ ॥ दशकम् - ५८] - जय जय तव माया केयमशेति तेषां नुतिभिरुदितहासो बद्धनानाविलासः । पुनरपि विपिनान्ते माचर: पाठलादि- असवनिकरमात्र ग्राह्य धर्मानुभावे ॥ ६ ॥ जयेति । हे ईश! जय जय लोकोत्तरी भूयाः । केयं तब माया, यत ऐषीकस्था वयं मीलिताक्षाः सन्तो भाण्डीरवटमूलस्थाः स्मः | पाटलेति । पाटल- शिरीषादितरुकुसुममात्रेण ग्राह्यो धर्मानुभाव ऊष्मा यस्मिंस्तस्मिन् प्राचरः सञ्चर- णं चकृषे ॥ ६ ॥ त्वयि विमुखमिवोचैस्तापभारं वहन्तं तव भजनवदन्तः पङ्कमुच्छोषयन्तम् । तव भुजवदुदञ्चदभूरितेजःप्रवाहं तपसमयमनैषीर्यामुनेषु स्थलेषु ॥ ७ ॥ त्वयीति | त्वं यामुनेषु स्थलेषु यमुनातीरेषु क्रीडन् तपसमयं श्रीष्म- कालमनैषीः | तपसमयं विशिनष्टि -- त्वयीति | त्वयीश्वरे विमुखं सेवारहितमिव तापभारं वहन्तं प्रापयन्तम् । असेवकपक्षे तापभारं चित्तसन्तापं वहन्तं दधतम् | तब भजनवदन्तर्नद्यादेः मनसि वा पर्क कर्दमं दुरितं वा । तपसमयपक्षे तेज आतपः अन्यत्र पराक्रमः ॥ ७ ॥ तदनु जलदजालैस्वद् पुस्तुल्यभाभि- विकसदमलविद्युत्पीतवासोविलासैः । सकलभुवनभाजां हर्षदां वर्षवेलां क्षितिधरकुहरेषु स्वैरवासी व्यनैषीः ॥ ८ ॥ तदन्विति । त्वद्वपुस्तुल्या भा: श्यामला दीप्तिर्येषाम् । विकसन्त्यः शोभ- माना भमला विद्युत एव पीतं वासस्तद्विलासाः शोभा येषाम् । त्वद्वपुरपि पीतवासो-