पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ नारायणीये तव विरहविषण्णा ऊष्मलग्रीष्मताप- प्रसरविसरदम्भस्याकुलाः स्तम्भमापुः ॥ २ ॥ अनधिगतेति । अनधिगतमप्राप्तं निदाघक्रौर्य ग्रीष्मकालभव ऊष्मा यस्मिंस्तस्माद् वृन्दावनान्तादू बहिर्देश मिदमैषीकाख्यं काननमुपयाताः तव विरहेण विषण्णाश्च ऊष्मलो यो ग्रीष्मस्तत्तापप्रसरैर्विसरदम्भसि नष्टजल इति बहिर्देशविशेषणम् । अथवोष्मलग्रीष्मतापप्रसरेण विसरन्त्या व्यासयाम्भस्यया पिपासयाकुलाः स्तम्भं निश्चेष्टतामापुः प्रापुः ॥ २ ॥ तदनु सह सहायैद्रमन्विष्य शौरे ! गलितसरणिञ्जारण्यसञ्जातखेदम् । पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारात् त्वयि गतवति ही ही सर्वतोऽग्निर्जजम्भे ॥ ३ ॥ तदन्विति । गलितसरणी अष्टमार्गे मुखाख्यतृणप्रधानेऽरण्ये | त्वय्यारात् समीपं गतवति ही ही कष्टं कष्टं दवामिः सर्वतो गोपैगवां परितो जज़म्भे प्रज्व- लितोऽभूत् ॥ ३ ॥ - सकलहरिति दीप्ते घोरभाङ्कारभीमे शिखिनि विहतमार्गा अर्धदग्धा इवार्ताः । अहह भुवनवन्धी ! पाहि पाहीति सर्वे शरणमुपगतास्त्वां तापहर्तारमेकम् ॥ ४ ॥ [स्कन्धः - १० सकलेति । सकलहरित्यष्टसु दिक्षु । विहतमार्गा बहिर्गन्तुमपारयन्तस्त्वां शरणमुपगताः ॥ ४ ॥ अलमलमतिभीत्या सर्वतो मीलयध्वं दृशमिति तव वाचा मीलिताक्षेषु तेषु | कनु दवदहनोऽसौ कुत्र मुञ्जाटवी सा सपदि ववृतिरे ते हन्त भाण्डीरदेशे ॥ ५ ॥ - अलमिति । सर्वतः सर्वे | सपदि पुनर्नयनोन्मीलनानन्तरमेव भाण्डीरदेशे 1 'पंगोपी: प' ख. ग. पाठः, s