पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बशकम् - ५८] गोगोपानां दावाग्निमोक्षवर्णनम् । उच्चतया दैत्यतनोस्त्वन्मुखमालोक्य दरतो रामः । विगतभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेनम् ॥ ९॥ उच्चतयेति । उच्चतयोन्नततया तत्स्कन्धस्थो रामो दूरतोऽपि त्वन्मुखमा- लोक्य भृशमतिशयेन दुष्टं दृढया स्थिरया मुष्ट्या सपदि झटिति पिष्टवान् निगृहीतवान् ॥ ९ ॥ हत्वा दानववीरं प्राप्त वलमालिलिङ्गिथ प्रेरणा | तावन्मिलतोर्युवयोः शिरसि कृता पुष्पवृष्टिरमरगणैः ॥ १० ॥ हत्वेति । मिलतोः प्रकृतिलये सकलनिकलेक्यवदेकीभूतयोः ॥ १० ॥ आलम्बो भुवनानां मालम्बं निधनमेवमारचयन् । कालं विहाय सद्यो लोलम्बरुचे ! हरे ! हरे: क्लेशान् ॥ ११ ॥ २०७ आलम्ब इति । भुवनानामालम्ब आश्रयः मालम्बं प्रलम्बस्येदं निधनं निमहमेवमुक्तप्रकारेणारचयन् कुर्वन् कालं कालविलम्बं विहाय त्यक्त्वा हरेर्नाशय || इति प्रलम्बासुरवधवर्णनं सप्तपञ्चाशं दशकं सैकम् । त्वाय विहरणलोले बालजालैः मलम्व- प्रमथनसविलम्बे घेनवः स्वैरचाराः । तृणकुतुकनिविष्टा दूरदूरं चरन्त्यः किमपि विपिनमैषीकाख्यमीषांबभूवुः ॥ १ ॥ त्वयीति | त्वयि लम्बमथनेन सावेलम्बे सति इषकतृणभूयिष्ठत्वादै- षीकाख्यं वनमीषांबभूवुर्जग्मुः ॥ १ ॥ अनधि गतनिदापक्रौर्यवृन्दावनान्ताद् बहिरिदमुपयाताः काननं धेनवस्ताः । १. 'लकपदे' क. पाठ-