पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये गोपान् विभज्य तन्वन् स *बलभद्रकं भवत्कमपि । त्वलभीरु दैत्यं त्वद्धलगतमन्वमन्यथा भगवन् ! ॥ ५ ॥ गोपानिति । गोपान् योगिप्रतियोगिभेदेन विभज्य बलभद्रकं स भवक्कं सङ्कं च तन्वन् । त्वद्वलभीरुमिति । प्रलम्बञ्चिन्तितवान् अस्मिन् द्वन्द्वयुद्धे परा- जिता जेतार बहेयुरिति न्यायः । दिक्षा मिथ्यापराजितोऽहमनयोरन्यतरं वहन् नेष्यामि । तत्र रामसङ्घस्थः कृष्णं वहन् कदाचित् तृणावर्त इव विपन्नः स्यामिति त्वलादू भीरुं त्वद्वलगतं त्वत्सङ्घस्थं त्वमन्वमन्यथा अनुज्ञातवान् ॥ ५ ॥ ऋतिक नेतृहने समरे परयूथगं स्वदयिततरम् । श्रीदामानमघत्थाः पराजितो भक्तदासतां प्रथयन् ॥ ६ ॥ कल्पितेति । कल्पितं विजेतॄणां वहनं यस्मिन् । भक्तानां मच्छिर आक्र- म्य स्थातुमपि शक्यमिति भक्तदासतां प्रथयन् प्रकाशयन् श्रीदामानमधत्था ऊढ- वान् ॥ ६ ॥ एवं बहुषु विभूमन्! वालेषु वहत्सु वाह्यमानेषु । रामविजितः मलम्बो जहार तं दूरतो भवद्भीत्या ॥ ७ ॥ एवमिति । भवद्भीत्या रामम् । दूरत इति । वहन्नवरोहणस्थानावधि शनैर्गत्वा ततो जहार क्षिप्रं नीतवान् ॥ ७ ॥ तद् दूरं गमयन्तं तं दृष्ट्वा हलिनि विहितगरिमभरे । दैत्यः स्वरूपमागाद् यद्रूपात् स हि वलोऽपि चकितोऽभूत् ॥ ८ ॥ त्वदिति । त्वत् त्वत्सकाशाद् दूरं दूरदेशं गमयन्तं नयन्तं तं दैत्यं सशङ्कं हलनि रामे विहितगरिमभर उत्पादितात्मगौरवे सति बहनाक्षमतया दैत्यः स्वरूपमतिमीषणमागात् । यस्मापाद् रूपं दृष्ट्वा स हि बलोऽपि शेषमूर्तिरपि मानुषभावेन चकित ईषत् त्रस्तोऽभूत् ॥ ८ ॥ 1. 'ति । त्वत्स' ख. ग. पाठ:.

  • बलभद्रनेतृकमित्यर्थः । एवं भवत्कम् | उभयत्र 'स एषां ग्रासणी: ' (५-२-७८) इति कन् ।