पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ५७] प्रलम्बासुरवधवर्णनम् । पानक्रियाकर्मतयाप्यसौ पीतता हे हरे दुरितैर्गदकारणभूतैर्दुष्कर्मफलैः सह गदान् कार्यभूतान् हर नाशय ॥ १० ॥ इति कालियमर्दने कालियस्य भगवदनुग्रहबर्णनं भगवतो दवानलपानवर्णनं च षट्पञ्चाशं दशकम् । रामसखः कापि दिने कामद ! भगवन् ! गतो भवान् विपिनम् । सुनुभिरपि गोपानां धेनुभिरभिसंकृतो लसद्वेषः ॥ १ ॥ रामेति । रामः सखा यस्य स भवान् लसद्वेष: शोभमानालङ्कृति- विशेषः ॥ १ ॥ सन्दर्शयन् बलाय स्वैरं वृन्दावनश्रियं विमलाम् । काण्डीरैः सह वालैर्भाण्डीरकमागमो वढं क्रीडन् ॥ २ ॥ सन्दर्शयमिति । काण्डीरैर्याष्टीकैरुतयष्टिभिरित्यर्थः । भाण्डीरकं नाम बटमागतः ॥ २ ॥ तावत् तावकनिधनस्पृहयागमूर्तिरदयालुः । दैत्यः मलम्वनामा मलम्बबाहुं भवन्तमापेदे || ३ || तावदिति । तावकनिधनस्पृहयालुस्त्वन्निग्रहेच्छावान् गोपमूर्तिर्गोपवेषः अढ्यालुः निष्कृपः प्रलम्बनामा दैत्यः प्रलम्बबाहुं तादृशबाहुद्वययुक्तमापेदे प्राप || जानन्नप्यविजानन्निव तेन समं निबद्धसौहार्दः । चटनिकटे पटुपशुपव्याबद्धं द्वन्द्वयुद्धमारब्धाः ॥ ४ ॥ जानन्निति | जानन्नपि वैरोत्पादनाय निबद्धं सौहार्द सुहृद्भावो येन । वटस्थ निकटे समीपे पटुभिर्द्वन्द्वयुद्धक्रीडाकोविदैः पशुपैः श्रीदामादिभिर्व्याबद्धमि- तरेतरसम्बद्धं द्वन्द्वयुद्धमारब्धाः प्रारब्धवान् ॥ ४ ॥

  • रामस्य सखा । ब्याख्यानरीत्या तु रामसखेति पाठः स्यात् ।

·