पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये फणीति | जीवितो मरणान्निवर्तितस्त्वयि समर्पितमूर्ति: साष्टाङ्गपातमवा- नमद् नमश्चकार ॥ ५ ॥ रमणकं व्रज वारिधिमध्यगं फणिरिपुर्न करोति विरोधिताम् । इति वचनान्यतिमानयन फणिपतिर्निरगादुरगैः समम् ॥ ६ ॥ रमणकमिति | रमणकं रमणकाख्यं नागानां निवासभूतं द्वीपम् । फणि- रिपुर्गरुडः सापराधेऽपि त्वयि विरोधितां न करोति ॥ ६ ॥ फणिवधूजनदत्तमणिब्रजज्वलितहारदुकूलविभूषितः । तटगतैः प्रमदाश्रुविमिश्रितैः समगथाः स्वजनैर्दिधौ ॥ ७ ॥ फणीति । प्रमदानुबिमिश्रितैः प्रमदारिश्रुमिंश्च प्रमदाश्रुमिर्हर्षा श्रुभिर्वा विमिश्रितैः स्वजनैः समगथाः सङ्गतोऽभूः ॥ ७ ॥ निशि पुनस्तमसा यजमन्दिरं व्रजितुमक्षम एव जनोत्करे । स्वपति तत्र भवचरणाश्रये दवकृशानुररुन्ध समन्ततः ॥ ८ ॥ निशीति | पुनरनन्तरं निशि रात्रौ तमसा ब्रजमन्दिरमेव व्रजितुं गन्तु- मक्षमे तत्र कालिन्दीतट एव स्वपति सत्यरुन्धावृणोत् ॥ ८ ॥ प्रबुधितानथ पालय पालयेत्युदयदार्तरवान् पशुपालकान् । अवितुमाशु पपाथ महानलं किमिह चित्रमयं खलु ते मुखम् ॥ ९ ॥ अबुधितानिति । अथ प्रबुधितान् कृशानूष्मणा प्रबुद्धानवितुं त्रातुं पपाथ पीतवान् । इह महानलपाने किं चित्रं, यतोऽयं कृशानुस्ते मुखम् ॥ ९ ॥ शिखिनि वर्णत एव हि पीतता परिलसत्यधुना क्रिययाप्यसौ । इति नुतः पशुपैर्मुदितैर्विभो ! हर हरे! दुरितैः सह मे गदान् ॥ १० ॥ शिखिनीति | शिखिन्यग्मौ वर्णतो रूपभेदेनैव पीतता | अधुना क्रियया १. 'ति । च्युतजी' क्र. ख, पाट:. २. 'भिः प्र' क. स्त्र. पाठ:.