पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालियमर्दनवर्णनम् । रुचिरकम्पितकुण्डलमण्डलः सुचिरमीश! ननर्तिथ पनगे । अमरताडितदुन्दुभिसुन्दरं वियति गायति दैवतयौवते ॥ १ ॥ दशकम् - ५६] रुचिरेति । दैवतयौवते देवस्त्रीसमूहेऽमरताडितदुन्दुमिसुन्दरं यथा तथा वियति दिवि विमानेषु गायति सति पन्नगे तत्फणासु सुचिरं ननर्तिथ || १ || नमति यद्यदमुष्य शिरो हरे ! परिविहाय तदुनतमुन्नतम् । परिमथन् पदपकरुहा चिरं व्यहरथाः करतालमनोहरम् ॥ २ ॥ नमतीति । अमुष्य फणिनो यद्यच्छिरो भगवत्पदपरिमथिततया नमति, तत्तत् परिविहायोन्नतमुन्नतं तच्छिर: पदपकरुहा परिमथन् व्यहरथा: क्रीडि तवान् ॥ २ ॥ त्वदवभनविभुम्नफणागणे गलितशोणितशोणितपाथसि । फणिपताववसीदति सन्तास्तदवलास्तव माधव पादयोः ॥ ३ ॥ स्वदिति | त्वयावभनो मर्दितो विभुम्नः कुटिलोऽदाङ्मुखः फणागणो यस्य । गलितेन वान्तेन शोणितेन रक्तेन शोणितमरुणीकृतं पाथो जलं येन । अवसीदति भनगात्रे सति तदबला नागपल्यः ॥ ३ ॥ अयि पुरैव चिराय परतत्वदनुभावविलीनदो हि ताः । मुनिभिरण्यनवाप्यपथैः स्तवैनुनुवुरीश! भवन्तमयन्त्रितम् ॥ ४ ॥ अयीति | पुरा पूर्वमेव चिराय चिरं परिश्रुतेन तवानुभावेन माहात्म्येन विलनिहृदः ऋथैद्धृदयाः अत एवं मुनिभिरष्यनवाप्यः पन्थाः सकलनिष्कल- रूपार्थयोजनरूपो मार्गो येषु तादृशैः स्तवैरयन्त्रितमनर्गलं नुनुवुस्तुष्टुवुः ॥ ४ ॥ फणिवधूगणभक्तिविलोकनप्रविकसत्करुणाकुलचेतसा | फणिपति जीवितस्त्वयि समर्पितमूर्तिरवानमत् ॥ ५ ॥ १. 'यह' क. पाठः.