पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्वलदक्षिपरिक्षरदुग्रविषश्वसनोष्मभरः स महाभुजगः । परिदश्य भवन्तमनन्तवलं समवेष्टयदस्फुटचेष्टमहो ॥ ६ ॥ ज्वलदिति । ज्वलदक्षि यथा भवति तथा परिक्षारसुत्रविषश्वसनस्योष्म- भरो यस्य सः परिदृश्य मर्मसु दृष्ट्वा समवेष्टयत् तदास्फुट चेष्टमदृश्यव्यापारम् || अविलोक्य भवन्तमथाकुलिते तटगामिनि बालकनुगणे । व्रजगेहतलेऽप्यनिमित्तशतं समुदीक्ष्य गता यमुनां पशुपाः ॥ ७ ॥ अविलोक्येति । अनिमित्तशतं दुर्निमित्तौघम् । पशुपा नन्दादयः ॥ ७ ॥ अखिलेषु विभो ! भवदीयदशामवलोक्य जिहासुषु जीवभरम् । फणिबन्धनमाशु विमुच्य जवादुदगम्यत हासजुषा भवता ॥ ८ ॥ अखिलेविति। जीवभरं भवद्विरहे वोढुमशक्यान् प्राणान् जिहासुषु विहातुमिच्छत्सु तेभ्य आत्मंकुशलज्ञापनार्थ हासजुषा भवतोदगम्यतोत्थितम् ॥८॥ अधिरुह्य ततः फणिराजफणान् नतृते भवता मृदुपादरुचा । कलशिञ्जितनूपुर मञ्जुमिलत्करकङ्कणसंकुलसंकणितम् ॥ ९॥ 2 अधिरुह्येति । ततः फणिराजस्य कालियस्य फणानधिरुह्य भवता ननुते नृत्तमकारि | मृद्धी फणामणिरजिततया स्निग्धा पादरुग् यस्य । कलशिक्षितौ नूपुरौ यस्मिन् तत् कलशिञ्जितनू पुरं मञ्जु मनोज्ञं च तालव्याटततया मिळतोः करयोः कङ्कणसंकुलस्य संकणितं यस्मिन्निति नर्तनक्रियाविशेषणम् ॥ ९ ॥ जहषुः पशुपास्तुतुषुर्मुनयो ववृषुः कुसुमानि सुरेन्द्रगणाः । स्वाय नृत्यति मारुतगेहपते ! परिपाहि स मां त्वमदान्तगदात् ॥ १० ॥ जहपुरिति । जहषुईष्टाः | तुतुषुस्तुष्टाः | अदान्तादविरतं वर्धमानाद् गदाद् व्याधेः परिपाहि ॥ १० ॥ इति कालियमदेने कालियशिरसि भगवन्नर्तनवर्णन पञ्चपञ्चाश दशकम् ।