पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ५५] कालियमर्दनवर्णनम् । अथ वारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधीभगवन् ! | द्रुतमाथि तीरगनीपतरुं विषमारुतशोषितपर्णचयम् ॥ १ ॥ अथेति । प्रतिवारयितुं कृतधीनिश्चितबुद्धिनपतरुं कदम्बवृक्षमारिथ प्रा- तवान् ॥ १ ॥ २०१ अधिरुह्य पदाम्बुरुहेण च तं नदपलवतुल्य मनोज्ञरुचा । हृदवारिणि दूरतरं न्यपतः परिघूर्णितधोरतरङ्गगणे ॥ २ ॥ अधिरुश्चेति । नवपल्लवतुल्यमनोज्ञरुचेत्यनेन नीपतरुर्मंगवस्पर्शात् व्यक्त- विषदोषः सञ्जातनवपल्लवश्च जात इत्यधःस्थितानां प्रतीतते ॥ २ ॥ भुवनयभारभृतो भवतो गुरुभारवि कम्पिविजृम्भिजला | परिमज्जयति स्म धनुःशतकं तटिनी झटिति स्फुटघोषवती ॥ ३ ॥ भुवनेति । भुवनत्रयमेव भारस्तमुदरे बिभर्तीति तथा, तादृशस्य भवतो गुरुभारेण विकम्पि कम्पनशीलं विजृम्भि वर्धनशीलं च जलं यस्यां तथाभूता तटिनी नदी झटिति धनुः शतप्रमाणं परिमज्जयति स्म प्लावयामास ॥ ३ ॥ अथ दिनु विदिक्षु परिक्षुभितभ्रमितोदरवारिनिनाद्भरैः । उदकाददगादुरगाधिपतिस्त्वदुपान्तमशान्तरुपान्धमनाः ॥ ४ ॥ अथेति । दिक्ष्वष्टसु विदिक्ष्यवान्तरेषु (?) च परिक्षुभितं परिचलितं भ्रमितं स- लातावर्तमुदरमन्तर्भागो यस्य तादृशं यद् वारि तस्य निनाद रैर्हेतुभूतैरशान्तरुपान्धं मनो यस्य तादृशः सन् त्वदुपान्तं त्वत्समीपमुदगाद् उन्मज्ज्य प्राप्तवान् ॥ ४ ॥ फणशुसहस्रविनिःसृमरज्वलदग्निकणोग्रविषाम्बुधरम् । पुरतः फणिनं समलोकयथा बहुभृङ्गिणमञ्जनशैलमिव ॥ ५ ॥ फणेति । फणवङ्गसहस्राद् विनिःसृमरं क्षरणशीलं ज्वलदमिकणमत एवोग्रं क्रूरं विषाम्बु विषद्रवं भरत इति तथा ॥ ५ ॥ १. 'प्रसिद्धियों' ख. पाउ::