पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये नश्यदिति । नश्यज्जीवान् म्रियमाणान् विच्युतान् पतितान् विश्वान् सर्वान् ॥ ६ ॥ २०० - किं किं जातो हर्षवर्षातिरेकः सर्वाङ्गेयुत्थिता गोपसङ्काः । दृष्ट्वाग्रे त्वां त्वत्कृतं तद् विदन्तस्त्वामालिङ्गम् दृष्टनानाप्रभावाः ॥ ७ ॥

किमिति | गोपसङ्घास्ततः किं किमिदमहो सर्वाङ्गेषु हर्षवर्षातिरेकः पर- मानन्दपीयूषाप्लो जात इति स्वप्नादिवोत्थिताः प्रागप्यत्रपूतनामोक्षादिषु दृष्ट- नाना प्रभावतया इदं विषजलादू रक्षणं स्वत्कृतं विदन्तस्त्वामालिङ्गन् आश्लेषं कृतवन्तः ॥ ७ ॥ गावश्चैवं लब्धजीवाः क्षणेन स्फीतानन्दास्त्वां च दृट्वा पुरस्तात् । द्रागावः सर्वतो हर्षवाष्पं व्यामुञ्चन्त्यो मन्दमुथन्निनादाः ॥ ८ ॥ गाव इति । गावश्चैवमुत्थिता द्वागू झटित्यावनुः परिवाय स्थिताः ॥ ८ ॥ रोमाञ्चोऽयं सर्वतो नः शरीरे भूयस्यन्तः काचिदानन्दमूर्छा | आर्योऽयं क्ष्वेलवेगो मुकुन्देत्युक्तो गोपैर्नन्दितो बन्दितोऽभूः ॥ ९ ॥ रोमाञ्च इति । हे मुकुन्द ! अयं क्ष्वेलवेगो विषवेग आश्चर्य: सर्पदष्टाना- मदृष्टपूर्वः । नोऽस्माकमन्तर्हदि काचिदपरिच्छेद्यानन्दस्य निरतिशय सुखस्य मूर्छा वृद्धिः भूयस्यतिनिबिडा । कथं ज्ञायते, शरीरे सर्वतः सर्वत्र रोमाञ्चोऽयं पश्यतु भवानिति भावः ॥ ९ ॥ एवं भक्तान् मुक्तजीवानपि त्वं युग्धापारस्तरोगांस्तनोषि । ताहरभूतस्फीतकारुण्यभूमा रोगात् पाया वायुगेहाधिवास ! ॥ १० ॥ एवमिति । मुक्तजीवान् मृतानच्यस्तरोगान् लब्धजीवांस्त्यक्तशोकांश्च तनोषि ॥ १० ॥ इति कालियमईने विषजलेन मृतानां गोगोपानासुजीचनवर्णनं चतुष्पश्चाशं दशकम् ।