पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ नारायणीये (स्कन्धः - १० विनिम्नति त्वय्यथ जम्बुको सनामकत्वावरुणस्तदानीम् । भयाकुलो जम्बुकनामधेयं सिद्धं व्यथितेति मन्ये ॥ ७ ॥ विनितीति । सनामकत्वात् स्वस्यापि जम्बुकनामकत्वात् ॥ ७ ॥ तवावतारस्य फलं मुरारे! सञ्जातमद्येति सुरैनुतस्त्वम् । सत्यं फलं जातमिहेति हासी बालः समं तालफलान्य भुङ्क्थाः ॥ ८॥ तवेति । अवतारस्य फलं धेनुकनिग्रहः । तदद्य सजातमिति सुरैर्नृतस्त्वं तव स्तुतिश्रवणात् सत्यं यथार्थवादिनो देवा इह फलं तालफलजातं जातम् ॥ ८ ॥ मधुद्रव चुन्ति बृहन्ति तानि फलानि मेदोभरभृन्ति भुक्त्वा । तृसैथ उसैर्भवनं फलौघं बहद्भिरागाः खलु बालकैस्त्वम् ॥ ९ ॥ मधुद्रवेति | मधुद्रवः सवत्येभ्य इति तथा मेदोभरभृन्ति अन्तःसारवन्ति तालफलानि भुक्त्वा तृतैरत एवं सैरहड्कृतैर्वन्धुभ्यो दातुं फलौघं स्कन्धोपनेयं भवनं वहाद्भः प्रापयद्भिः ॥ ९ ॥ हतो हतो धेनुक इत्युपेत्य फलान्यदद्भिर्मधुराणि लोकैः । जयेति जीवेति नुतो विभो! त्वं मरुत्पुराधीश्वर! पाहि रोगात् ।। १० ।। हत इति । हर्षातिशयेन हतो हत इति द्विरुक्तिः ॥ १० ॥ इति धेनुकासुरवधवर्णनं त्रिपञ्चाशं दशकम् । अथ दशकत्रयेण कालिमरूप भगवच्चरित कथयन् स्तौति -- स्वत्सेवोत्क: सौभरिनम पूर्व कालिन्यन्तर्द्वादशाब्द तपस्यन् । मीनवाते स्नेहवान् भोगलोले तार्क्ष्य साक्षादक्षताग्रे कदाचित् ॥ १ ॥ त्वदिति । त्वत्सेवायामुक उत्सुकः सौभरिर्नाम मुनिर्भोगलोले इतरेतर.. बेहसुखपरे । साक्षात् प्रत्यक्षत एैक्षत दृष्टवान् || १ ||