पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. धेनुकासुरवधवर्णनम् । उपक्रमस्थानुगुणैव सेयं मरुत्पुराधीश! तब प्रवृत्तिः । गोत्रापरित्राणतीर्णस्तदेव देवारभयास्तदा यत् ॥ २ ॥ दशकम् - ५३] - उपक्रमस्येति । उपक्रमस्यारम्भस्यानुगुणा योग्या | गोत्रापरित्राणकृते. भूमे रक्षणार्थम् । तदेव ंगोत्रापरित्राणं गोरक्षणम् ॥ २ ॥ कदापि रामेण समं वनान्ते वनश्रियं वीक्ष्य चरन् सुखेन । श्रीदामनाम्नः स्वसखस्य वाचा मोढादगा धेनुककाननं त्वम् ॥ ३ ॥ कदेति । धेनुककाननं धेनुकासुरनिवासस्थानं तालवनम् ॥ ३ ॥ उत्तालतालीनिवहे त्वदुक्तथा बलेन धूतेऽथ बलेन दोर्भ्याम् । मृदुः खरथाभ्यपतत् पुरस्तात् फलोत्करो धेनुकदानवोऽपि ॥ ४ ॥ उत्तालेति । उत्तालेऽतिमहति तालीनिवहे तालवृक्षसमूहे बलेन शक्त्या दोभ्य धूते चालिते पुरस्तात् प्रथमं मृदुरपरिणतः खरः परिणतः फलोत्करः फलसमूहोऽभ्यपतत् सम्भूयापतत् । अनन्तरं धेनुकदानवोऽपि तालफलपतनरवज- नितक्रोधेन खररूप्यभ्यपतदभ्यधावत् ॥ ४ ॥ समुद्यतो घैनुकपालनेऽहं वर्ष कथं धेनुकमय कुर्वे । इतीव मत्वा ध्रुवमग्रजेन सुरौधरोद्धारमजीतस्त्वम् ॥ ५ ॥ समुद्यत इति । धैनुकस्य धेनुसमूहस्य पालने समुद्यत उत्साही घैनुकं वधं धेनुकासुरवध मिति प्रकृतोऽर्थः । कथं कुर्वे न करोमि ध्रुवं निश्चितमिति मत्वा निश्वित्येवाग्रजेन तमजीवतो घातितवानसि ॥ ५॥ तदीयभृत्यानपि जम्बुकत्वेनोपागतानग्रजसंयुतस्त्वम् । जम्बूफलानीव तदा निरास्थस्तालेषु खेलन् भगवन् ! निरास्थः ॥ ६ ॥ तदीयेति । जम्बुकत्वेनोपागतान् जम्बुकाः क्रोष्टारो भूत्वागतान् । निरास्थ आस्थारहितः सन् निरास्थो निरसनं कृतवान् निगृहीतवान् ॥ ६ ॥ $ 'इनित्रकटयचश्च' (४-२-५१) इति त्रप्रत्ययः ।