पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये नारायणाकृतिमतमां निरीक्ष्य सर्वत्र सेवकमपि स्वमवेक्ष्य धाता। मायानिमन्महदयो विमुमोह याव- देको बभूविथ तदा कबलार्धपाणिः ।। ९ । [स्कन्धः - १० नारायणेति । सेवकं स्वमात्मानम् | मायायां निमनं मूढं हृदयं यस्य | याबद् विमुमोहाचेतनप्रायोऽभूत् तदा त्वं बहुरूपं संहृत्यैक: कबलार्धपाणिः श्रीकृ व्णरूपेण वत्सान्वेषणपरो बभूविथ ॥ ९ ॥ नभ्यन्मदे तद्नु विश्वपतिं मुहुस्त्वां नत्वा च नूतवति धातरि धाम याते | पोतैः समं प्रमुदितैः प्रविशनिकेतं चातालयाधिप! विभो! परिषाहि रोगात् ॥ १० ॥ नश्यदिति । नूतवति स्तुतवति सति धाम सत्यलोकं याते गते च सति. पोत्सपालैः समं सह निकेतं गृहं प्रविशन् ॥ १० ॥ इति ब्रह्मकृतवत्सापहारवर्णनं भगवन्मायया ब्रह्मणो मोहवर्णनं च द्विपञ्चाशं दशकम् । अतीत्य वाल्यं जगतां पते! त्वमुपेत्य पौगण्डवयो मनोज्ञम् । उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायाम् ॥ १ ॥ 'णू स्तवनं' तुदादिः । अतीत्येति । बाल्यं पञ्च वर्षाणि । पौगण्डचयो द्वितीयपञ्चकं मनोज्ञं बा- ल्यादतिमोहनं तदुपेत्य प्राप्य वत्सानामवनं रक्षणमुपेक्ष्योत्सवेन कौतुकेन गोग- णपालनायां प्रावर्तथाः प्रवृत्तोऽभूः ॥ १ ॥