पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् -- ५२] भगवन्मायया ब्रह्मणो मोहवर्णनम् । एवं प्रतिक्षणविजृम्भित हर्षभार- निश्शेषगोपगणल (लितभूरिमूर्तिम् । त्वामग्रजोऽपि बुबुधे किल वत्सरान्ते ब्रह्मात्मनोरपि महान् युवयोर्विशेषः ॥ ६ ॥ + एवमिति । प्रतिक्षणं विजृम्भितो वर्धितो हर्षभारः सन्तोषातिशयो येषां तेषां निश्शेषाणां गोपानां गणेन लालितमूरिमूर्ति तसद्भोगोप्नात्मजरूपं त्वामग्रजः श्रीबलभद्रोऽपि (स्वरिमूर्तित्वं?) वत्सरान्ते संवत्सरावसाने बुबुधे । ब्रह्मात्मनोर्ब्रह्मस्व- रूपयोरपि युवयोस्त्वं निष्कलं ब्रह्म अग्रजः सकलमिति महान् विशेषः ॥ ६ ॥ वर्षावधौ नवपुरातनवत्सपालान् दृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे । मादीदृशः प्रतिनवान् मकुटाङ्गदादि- भूषांचतुर्भुजयुजः सजलाम्बुदाभान् ॥ ७ ॥ वर्षावधाविति । वर्षावधी संवत्सरावसाने नवान् श्रीकृष्णमयान् पुरात नान् स्वेन तिरस्कृतान् वत्सान् वत्सपालांश्च दृष्ट्वा दुहिणे ब्रह्मणि विमूढे एते सत्या अन्ये मायामया इति सम्यग्ज्ञानरहिते विवेकमणे विचारयितुमप्यसमर्थे सति प्रतिनवान् मायामयान् मकुटाङ्गदादिविशिष्टान् प्रादीदृशः प्रदर्शयामा- सिथ ॥ ७ ॥ प्रत्येकमेव कमलापरिलालिताङ्गान् भोगीन्द्रभोगशयनान् नयनाभिरामान | लीलानिमीलितदृश: सनकादियोगि व्यासेवितान् कमलभूर्भवतो ददर्श ॥ ८ ॥ - प्रत्येकमिति । लीलानिमीलितदृशोऽङ्गीकृतयोगनिद्रान् भवतो विष्णून् ददर्श ॥ ८ ॥ १. 'द्रोपगो': ख. ग. पाठः