पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये त्वामेव शिक्यगवलादिमयं दधानो भूयस्त्वमेव पशुवत्सकबालरूपः । गोरूपिणी भिरपि गोपवधूमयभि रासादितोऽसि जननीभिरतिमहर्षात् ॥ ४ ॥ त्वामिति । भूयः पुनः पशुवत्सकबालरूपस्त्वं शिक्यगवलादिमयं त्वामेव दधानः । गोरूपिणीभिरिति । गोरूपिणीभिर्जननीभिः पशुवत्सरूपस्त्वमतिप्रहर्षा- दतिशयेन वात्सल्यादास दितः स्वं स्वं वत्सं मत्वा गावस्त्वां सहुङ्कारमौधसं पयो- उपाययन् | तथा गोपवधूमयी भिर्जननीभिर्गोपचालकरूपत्वमासादितोऽसि ता अपि स्वं स्वं सुतं मत्वा त्वामङ्कारोपणाश्लेषस्तनदानादि चरित्यर्थः ॥ ४ ॥ ननु गोगोपीनां वत्सवत्सपबाले वेवमतिमहर्षे को हेतुरित्याशङ्कय सर्वोऽन्यो- त्मान स्निह्यति । अन्ये हि तदर्थं प्रियाः । आत्मा च विष्णुः कृष्णः । अतस्तद्रूपेषु पुत्रेषु प्रेमधिरभूदिति परिहरन्नाह --- जीवं हि कश्चिदभिमानवशात् स्वकीयं मत्वा तनूज इति रागभरं वहन्त्यः | आत्मानमेव तु भवन्तमवाप्य सूनुं [स्कन्धः - १० प्रीतिं ययुर्ननिताच गावः ॥ ५ ॥ जीवमिति | कञ्चित् स्वप्रारब्धकर्मफलभोगायोद्यतं जीवमात्मत्वेनाभिमतं स्थूलं सूक्ष्म वा शरीरमभिमानवशान्ममत्वारोपवशेन तनूजो मम पुत्र इति स्वकीय मत्वा रागभद्रं वहन्त्यो भवन्ति तन्मातरः | हि यस्मादित्थंभावेऽप्येतादृशो रागः, विशेषे सति किमुच्यत इत्याह- आत्मानमिति । आत्मानमहम्प्रत्यये नेदमंशरूपं भवन्तं श्रीकृष्णमेव सूनुमवाप्य वविता गोप्यो गायश्च न कियतीं प्रीतिं ययुः अतिमहतीं प्रीतिमवाप्ता एवेत्यर्थः ॥ ५ ॥ े 'ह्या' ख. ग. पाठः, नमहम्प्रत्यय' क्र. ख. पाठः, - २. 'कृष्णस्तु सर्वेषामात्मा | अ' क पाठ: ३. 'देव तस्मादात्मा..