पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मकृतवत्सापहारवर्णनम् । अन्येति । अन्यावतारनिकरेषु नृसिंहादिष्वप्यनिरीक्षितमदृष्टं भूमातिरेक- मैश्वर्यातिशयम् । परीक्षितुमना इतोऽप्यैश्वर्यातिशयं द्रष्टुकामः प्रवितत्य, प्रयुज्य । परोक्षभावमन्तर्धानम् ॥ १ ॥ दशकम् - ५२] B वत्सानवक्ष्य विवशे पशुपोत्करे ता- नानेतुकाम इव धातृमतानुवर्ती । त्वं सामिभुक्तकबलो गतवांस्तदानीं भुक्तांस्तिरोधित सरोजभवः कुमारान् ॥ २ ॥ वत्सानिति | धातुर्मतं भूमातिरेकदर्शनं तदनुवर्ती तदर्शनार्थीत्यर्थः । सामिभुक्तकबलोऽर्धभुक्तपाणिकबल: अहमेव वत्सानानेध्यामीति भुजानान् बालकानाख्याय तानानेतुकाम इव, नानेतुकामः, किन्तु धातृमतानुवर्तनार्थं गत- वांस्त्वम् । तदानीं श्रीकृष्णे दूरस्थे सति सरोजभवो ब्रह्मा भुक्तान् भुजानान् तिरोधित तिरस्कृतवान् ॥ २ ॥ 1 एवं वत्सकवत्सपेषु ब्रह्मणा तिरस्कृतेष्वेकाकी भगवान् सायमेतविना मम व्रजप्रवेशे सति गोगोपीनां स्वात्मजादर्शनजनितः खेदः स्याद् एतान् ब्रह्मणोऽपद्धृ- त्य गमने ब्रह्मणोऽपि खेद इति विचिन्त्य तदुभयाभावाय स्वमायया स्वेनैव सबै सम्पादितवानित्याह- वत्सायितस्तंदनु गोपगणायितस्त्वं शिक्यादिभाण्डमुरलीगवलादिरूपः । भाग्वद विहृत्य विपिनेषु चिराय सायं त्वं माययाथ बहुधा व्रजमाययाथ || ३ || वत्सायित इति । तदनु ब्रह्मणा वत्सवत्सपसमूहे तिरस्कृते सतित्व मायया बहुधा सर्वस्वरूपो भूतः यत्सायितो वत्सा इवाचरन् गोपगणायितः शिक्यादिरूपश्च चिराय चिरं विपिनेषु प्राग्वद् विकृत्याथ सायं सन्ध्यायां नजमाययाथागतवान् ॥ ३ ॥