पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 १९२ नारायणीये सविस्मयैः कमलभवादिभिः सुरै- रनुहुतस्तदनु गतः कुमारकैः । दिने पुनस्तरुणदशामुपेयुषि [स्कन्धः – १० - स्वकैर्भवानतनुत भोजनोत्सवम् ॥ ८ ॥ सविस्मयैरिति | अनुद्भुतो व्योममार्गेणानुगतः दिने तरुणदशामुपेयुषि मध्याह्ने प्राप्ते सति भोजनोत्सवं बनाशनकौतुकम् ॥ ८ ॥ विषाणिकामपि मुरलीं नितम्बके निवेशयन् कबलधरः कराम्बुजे । महासयन् कलवचनैः कुमारकान् बुभोजिथ त्रिदशगणैर्मुदा नुतः ॥ ९ ॥ विषाणिकामिति । विषाणिकांशृङ्ग, मुरली वेणुं, नितम्बके कटिप्रदेशे पीतपटान्तरे ॥ ९ ॥ सुखाशनं त्विह तव गोपमण्डले मखाशनात् प्रियमिव देवमण्डले । इति स्तुतस्त्रिदशवरैर्जगत्प्रभो ! मरुरीनिलय ! गदात् प्रपाहि माम् ॥ १० ॥ सुखाशनमिति | गोपमण्डले सुखाशनं देवमण्डले मखाशनाद् यज्ञभा- गभोजनात् प्रियमिव त्रिदशवरैर्ब्रह्मादिभिरिति स्तुतः ॥ १० ॥ इत्यघासुरवधवर्णनम् एकपञ्चाशं दशकम् । अन्यावतारनिकरध्वनिरीक्षितं ते मातिरेकमभिवीक्ष्य तदाघमोक्षे । ब्रह्मा परीक्षितुमनाः स परोक्षभावं निन्येऽथ वत्सकगणान् पवितस्य मायाम् ॥ १ ॥