पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ६१] - अथासुरवचवर्णनम् । प्रमादतः प्रविशति पन्नगोदरं कथत्तनौ पशुपकुले सवात्सके । विदन्निदं त्वमपि विवेशिय प्रभो ! सुहृज्जनं त्रिशरणमाशु रक्षितुम् ॥ ५ ॥ प्रमादत इति । कथतनौ दयमानशरीरे सवात्सके वत्ससमूहसहिते । त्वम पीदमघासुरचेष्टितं विदन् जानन् ॥ ५ ॥ गलोदरे विपुलितबर्ष्मणा त्वया महोरगे लुठति निरुद्धमारुते । द्रुतं भवान् विदलितकण्ठमण्डलो विमोचयन पशुपपशुन् विनिर्ययौ ॥ ६ ॥ १९१ गलोदर इति । विपुलितवर्मणा वर्धितशरीरेण त्वया निरुद्धो मारुतः प्राणवायुर्यस्य । अत एव प्राणनिरोधालुठति इतस्ततो वेष्टमाने सति बिदलितं विदारितं कण्ठमण्डलं येन स भवांस्तेन प्राणनिर्गममार्गेण पशुपान् पशुश्च विमो चयन् बहिर्निर्गमयन् स्वयमपि विनिर्ययौ ॥ ६ ॥ क्षणं दिवि त्वदुपगमार्थमास्थितं महासुरप्रभवमहो महो महत् । विनिर्गते स्वयि तु निलीनमञ्जसा नभःस्थले ननृतुरथो जगुः सुराः ॥ ७ ॥ क्षणमिति । त्वदुपगमार्थं त्वन्निर्गमनार्थं त्वयि प्रवेष्टुं वा क्षणं दिव्याकाश आस्थितं महासुरप्रभवमघासुरशरीरान्निर्गतं महद् विपुलं महा सूक्ष्मशरीरस्यापि त्यागेन परिच्छेदकाभावादत्युज्ज्वलं तेजःपुखं त्वयि ज्योतिषि ज्योतिरिव निली- नम् । अहो द्विषन्नप्यघालुरो भवन्तमन्तःकृत्वा भृतोऽतस्तत्क्षणं तत्फलं सायु- ज्याख्यं मोक्षं सर्वलोकसमक्षं प्रासवान् । अहो भक्तवात्सल्यं भवत इति भावः ॥ ७ ॥