पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० नारायणीये [स्कन्धः -- १० कदाचनेति । प्रगेतरामुषस्यासन्ने सतेमनैः सव्यञ्जनैजैमनैरोदनैः ॥ १ ॥ विनिर्यतस्तव चरणाम्बुजव्या- दुदश्चितं त्रिभुवनपावनं रजः । महर्षयः पुलकधरैः कलेबरै- रुदूहिरे धृतभवदीक्षणोत्सवाः ॥ २ ॥ विनिर्यत इति । विनिर्यतो विनिर्गच्छतः । उदञ्चितं पतितं त्रिभुवनपा- वनं जगतां पापशोधकम् । पुलकधरैरिति भक्तचनुभावः । उदूहिरे धृतवन्तः ॥ २ ॥ प्रचारयत्यविरलशाहले तले पशुन् विभो ! भवति समं कुमारकैः । अघासुरो न्यरुणदयाय वर्तनी भयानकः सपदि शयानकाकृतिः ॥ ३ ॥ मचारयतीति । अविरलशाहले तृणभूयिष्ठे तले प्रदेशे | अघाय भवतो भवन्नाथानां च ग्रसनरूपमघमपराधं कर्तुं, परमार्थतस्तु भवभयप्रदमघं दुरितं त्यक्तुं वर्तनीं मार्गे न्यरुणद् रुरोध | शयानकाकृतिरजगररूपः ॥ ३ ॥ महाचलप्रतिमतनोर्गुहानिभ- प्रसारितप्रथितमुखस्य कानने । मुखोदरं विहरणकौतुकाद् गताः कुमारकाः किमपि विदूरगे त्वयि ॥ ४ ॥ महाचलेति । कुमारका विवेकरहितास्त्वयि किमपि किञ्चिद् विदूरगे दूर- स्थे सति कानने विहरणकौतुकात् तस्य मुखोदर मास्यं गताः प्रविष्टाः । कथमेतद्, महाचलप्रतिमतनोः पर्वतगुहानिभं प्रसारितमास्तृतं प्रथितं विस्तृतं मुखमास्यं यस्य, अतः अजगरतनोर्महाचलम्रान्त्या तन्मुखस्याचलगुहाभ्रान्त्या चेत्यर्थः ॥ ४ ॥ १. 'नां गोपगोपीनां च' ख, ग. पाठः