पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अघासुरवधवर्णनम् । पिवतीति । गोपानां बाते समूहे । अभिद्रुतोऽभिधावत् भवन्तं निगिलन् ग्र- सन् अग्निप्रख्यमग्निसदृशमत एव द्रुतमुद्धमन् पुनर्वमनानन्तरं त्रोट्या: चञ्चोः कोट्या- श्रेण दलयितुं विदारयितुमगात् । खलजनभिदाचुञ्चुर्दुष्टनिग्रहेण प्रसिद्धो भवान् अधरोत्तरे चञ्चू प्रगृह्य तं ददार निगृहीतवान् ॥ ८ ॥ दशकम् - ५१] - सपदि सहजा सन्द्रष्टुं वा मृतां खलु पूतना- मनुजमघमध्यग्रे गत्वा प्रतीक्षितुमेव वा । शमननिलयं याते तस्मिन् बके सुमनोगणे किरति सुमनोबृन्दं बृन्दावनाद् गृहमैयथाः ॥ ९ ॥ सपदीति | अग्रे पूर्व गत्वाघमघासुरं प्रतीक्षितुं प्रतिपालयितुम् । तस्मिन्नघ- पूतनाज्येष्ठे बकासुरे शमननिलयं यमसदनं याते सति सुमनसां देवानां गणे सुम- नसां पुष्पाणां बृन्दं समूहं किरति वर्षति सत्यैयथा अगच्छः ॥ ९ ॥ ललितमुरलीनादं दूरान्निशम्य वधूजनै- स्त्वरितमुपगम्यारादारूढमोद मुदीक्षितः । जनितजननीनन्दानन्दः समीरणमन्दिर - प्रथितवसते! शौरे! दूरीकुरुष्व ममामयान् || १० || ललितेति । ललितमतिसुन्दरं मुरलीनादं बेणुनादं निशम्य दूरादुदीक्षित उन्नमितवदनं वीक्षितः पुनस्त्वरितमुपगम्य प्रस्थाय तत्समीपं गत्वारात् समी- पेऽङ्गप्रत्यङ्गदर्शनादारूडमोदमुदीक्षितः जनित उत्पादितो जननीनन्दयोरानन्दो येन ॥ १० ॥ इति वत्सासुरवधवर्णनं बकासुरवभवर्णनं च पञ्चाशंदशकम् | कदाचन व्रजशिशुभिः समं भवान् बनाशने विहितमतिः प्रगेतराम् । समावृतो बहुतरवत्समण्डलैः and सतेमनैर्निरगमदीश! जेमनैः ॥ १ ॥