पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये जबेन क्षुण्णैश्चूर्णीकृतैः क्षोणीरुहवृक्षैः क्षतं नष्टं काननं येन । परिमिलान्त समूहीभूतानि वृन्दानि गणा येषु ते बृन्दारका देवाः कुसुमोत्करैः सुरतरु- कुसुमनिकरैः ॥ ९ ॥ सुरभिलतमा मूर्धन्यूर्ध्वं कुतः कुसुमावली निपतति तवेत्युक्तो बालैः सहेलमुदैरयः । झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलात् कुसुमनिकरः सोऽयं नूनं समेति शनैरिति ॥ ६ ॥ कचन दिवसे भूयो भूयस्तरे परुषातपे तपनतनयापाथः पातुं गता भवदादयः । चलितगरुतं प्रेक्षामासुर्वकं खलु विस्मृतं क्षितिधरगरुच्छेदे कैलासशैलमिवापरम् ॥ ७ ॥ - सुरभिलेति । सुरभिलतमातिशयेन सुरभिला सौरभ्ययुक्ता कुसुमावली कुतस्तव मूर्धनि निपतति ऊर्ध्वमुपरिभागे वृक्षाभावात् कुत एतदिति बालैरुक्तः पृष्टस्त्वं सहेलं सलीलमुदैरय उक्तवान्, दनुजक्षेपेण वत्सासुरशवशरीरप्रक्षेपेण तद्वेगोत्थः कुसुमनिकरस्तरुमण्डलादू वृक्षनिकरादूर्ध्वं गतः सोऽयं शनैः समेति मूर्ध्नि पतति नूनं तर्कयामि ॥ ६ ॥ Q पिवात सलिलं गोपत्राते भवन्तमभितः स किल निगिलन्नग्निप्रख्यं पुनर्हुतमुद्वमन् | दलयितुमगार त्रोट्या: कोट्या तदा तु भवान् विभो ! खलजनभिदाचुञ्चुअञ्चू मगृह्य ददार तम् ॥ ८ ॥ 'शु' ग. पाठः. २. 'क्षणात्' ख. घ. पाठः, कचनेति । भूयः पुनः वचन दिवसे भूयस्तरे भूयिष्ठे परुषातपे ग्रीष्मकाले तपनतनयायां यमुनायां पाथो जलं पातुं भवदादयो गोपबालका बकं बकासुरं प्रेक्षामासुः दृष्टवन्तः । चलितगरुतं चलितपक्षम् । इन्द्रकर्तृके क्षितिधरगरुच्छेदे विस्मृतमच्छिन्नपक्षमपरं द्वितीयम् ॥ ७ ॥