पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ५०] वत्सासुरवधवर्णनम् । लालितं संवाहितम् । तर्वादिकं किमिव सम्पत्सम्पूरितं न बभौ शुशुभे तरवः पुष्पादिभिः सम्पद्धिः, वल्लर्यश्च, सलिलं पद्मादिभिः, धरणी सस्यादिभिः, गोत्रः पर्वतो - रत्नादिभिः, क्षेत्रमाकरो हेमादिभिश्च सम्पूर्ण शुशुभ इत्यर्थः ॥ २ ॥ विलसदुलपे कान्तारान्ते समीरणशीतले विपुलयमुनातीरे गोवर्धनाचलमूर्धसु | ललितमुरली नादः सञ्चारयन् खलु वात्सकं कचन दिवसे दैत्यं वरसाकृतिं त्वमुक्षयाः ॥ ३ ॥ विलसदिति | बिलसदुलपे शोभमानतृणविशेषयुक्ते कान्तारान्ते वनम- देशे, यमुनातरङ्गसङ्गिना समीरणेन शीतले बिपुले पुलिनमयतया विस्तृते यमुना- तीरे च वात्सकं वत्ससमूहम् | उड़ैक्षया दृष्टवान् ॥ ३ ॥ रभसविलसत्पुच्छं विच्छायतोऽस्य विलोकयन् किमपि वलितस्कन्धं रन्ध्रप्रतीक्षमुदीक्षितम् । तमथ चरणे विभ्रद् विभ्रामयन मुहुरुचकैः कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् ॥ ४ ॥ रभसेति । रभसविलसत्पुच्छं वेगादितस्ततः सञ्चारितपुच्छं यथा भवति तथा विच्छायतो गच्छतोऽस्य वत्सासुरस्य किमपि वलितस्कन्धमीषत्तिर्यकृतमीचं, रन्ध्रप्रतीक्षमवसरप्रतिपालनरूपं च यदुदीक्षितमवलोकनं तद् विलोकयन् अथ मां हन्तुकामोऽयमिति निश्चित्य तं चरणे बिश्रद् गृहीत्वोच्चकैचेंगान्मुहुर्विभ्रामयन् विभ्र- मणेनैव क्षतजीवितं कुहचन कस्मिंश्चिच्चिक्षेपिथ प्रक्षिप्तवान् ॥ ४ ॥ 4 निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं निपतनजवक्षुण्णक्षोणीरुहक्षतकानने । दिवि परिमिलवृन्दा वृन्दारकाः कुसुमोत्करैः शिरसि भवतो हर्षाद् वर्षन्ति नाम तदा हरे ! ॥ ५ ॥ निपततीति । जात्या जन्मतः प्रभृत्यासुरभावेन दुरात्मनि दुष्टे निपतन-