पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ नारायणी [ स्कन्धः - १० रत्नानां मयूखमालाभिः प्रभापटलैः शवलं विचित्रवर्णमुरुन्तैः शृ: विरिञ्चलोक सत्यलोकं शतीति तथा ॥ ८ ॥ समं ततो गोपकुमारकैस्त्वं समन्ततो यत्र वनान्तमागाः । ततस्ततस्तां कुटिलामपश्यः कलिन्दजां रागवतीमिवैकाम् ।। ९ ।। सममिति । ततो गोपकुमारकैः समं सह वनान्तं समन्ततः सर्वत्र यत्र यत्रागाः गतवानसि ततस्ततः तत्र तत्र कलिन्दजामेकामपश्यः । तत् कथं, कुटि- लां वक्रमार्गेण तत्र तत्रागतामतस्त्वदनुसरणात् त्वाय रागवतीमिव ॥ ९ ॥ तथाविधेऽस्मिन् विपिने पशव्ये समुत्सुको वत्सगणप्रचारे । चरन सरामोऽथ कुमारकैस्त्वं समरंगेहाधिप ! पाहि रोगात् ॥१०॥ तथेति । पशव्ये पशुभ्यो हिते ॥ १० ॥ रति वृन्दावनगमनवर्णनम् ऊनपञ्चाशं दशकम् | तरलमधुकृवृन्दे वृन्दावनेऽथ मनोहरे पशुपशिशुभिः साकं वत्सानुपालनलोलुपः । हलधरसखो देव! श्रीमन् ! विचेरिथ धारयन् गवलमुरलीवेत्रं नेत्राभिरामतनुयुतिः ॥ १ ॥ तरलेति । तरलमधुकुन्दे चलितभृङ्गसमूहे | गवलं शृङ्गं मुरली वेणुं वेत्र याष्टे च धारयन् विचेरिथ सञ्चरणं कृतवान् ॥ १ ॥ विहितजगतीरक्षं लक्ष्मीकराम्बुजलालित ददति चरणद्वन्द्व वृन्दावने त्वयि पावने । किमिव न वभौ सम्पत्सम्पूरितं तरुवल्लरी- सलिलधरणीगोत्रक्षेत्रादिकं कमलापते! || २ || विहितेति । विहिता जगत्या भूम्या रक्षा येन | लक्ष्म्याः कराम्बुजाभ्यां