पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ४९] बृन्दावनगमनवर्णनम् । १८५ समूहस्य खुरप्रणादः, तयोरन्तरतो मध्ये श्रयमाणानि भवद्विनोदालपितेषु कल- भाषणेष्वमृतमयानि अक्षराणि प्रपीय श्रोत्राञ्जलिभिरापीय मार्गदैये नाज्ञायत न विदितम् ॥ ४ ॥ निरीक्ष्य बृन्दावनमीश! नन्दप्रसूनकुन्दप्रमुखदुमघम् । अमोदथा: शाहलसान्द्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभम् ॥ ५ ॥ निरीक्ष्येति । नन्दन्ति समृद्धानि प्रसूनानि येषु तथाविधा: कुन्दप्रमुखा द्रुमौषा यस्मिन् । शाद्वलसान्द्रलक्ष्म्या हरिततृणनीरन्धितस्थलशोभया हरिन्म- णीकुट्टिमवदिन्द्रनीलमणिकुट्टिमवत् पुष्टशोभं संपूर्णशोभायुक्तम् | अमोदथा: स- न्तुष्टोऽभूः ॥ ५ ॥ नवाकनिर्व्यूढनिवासभेदेष्वशेषगोपेषु सुखासितेषु । वनश्रियं गोपकिशोरपालीविमिश्रितः ‘पर्यगलोकथास्त्वम् ॥ ६ ॥ नव।केति । नवाकनिर्व्यूढेषु भूतनतया रचितेषु निवासभेदेषु विशिष्टेषु भवनेषु । पर्यगलोकथाः परितो दृष्टवानसि ॥ ६ अरालमार्गागत निर्मलापां मरालकूजाकृतनर्मलापाम् । निरन्तरस्मेरसरोजवक्रां कलिन्दकन्यां समलोकयस्त्वम् ॥ ७ ॥ अरालेति | मरालकूजाभिः कलहंसकूजितः कृतनर्मलापामुचारितसरस- वचनाम् | अरालेन कुटिलेन मार्गेणागता निर्मला आपो यस्याम् । निरन्तराणि नीरन्त्रितानि स्मेराणि सरोजान्येव व यस्याः | कलिन्दकन्याम् अत एवोप- भोगक्षमाम् ॥ ७ ॥ मयूरकेकाशतलोभनीयं मयूखमालाशवलं मणीनाम् । विरिञ्चलोकस्पृशमुच शृङ्गैगिरं च गोवर्धनमैक्षशास्त्वम् ॥ ८ ॥ मयूरेति । मयूराणां केकाशतैः कलकल निनादैर्लोमनीयं मनोहरं मणीनां १. 'अर्धचन्द्राकारतया २' ग. पाठः २. 'न्यां कालिन्दीमत' ख. पाठः. + अन्वगादिवद् अचूत्तरपदं पर्यगिति प्ररित इति तदर्थः ।