पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्धः -- १० महीरुहोर्मध्यगतो पदार्थको हरे: भावादपरिक्षतोऽधुना । इति बुदाणैर्गमितो गृहं भवान्वीश्वर! पाहि मां गंदात् ॥ १० ॥ महीति | महीरुहोर्वृक्षयोः । प्रभावः शक्तिः । अपरिक्षतोऽविकलाङ्गः । ब्रुवाणैर्नन्दादिभिरिति शेषः ।। १० ।। इति यमलार्जुनभञ्जनवर्णनम् अन्चत्वारिंशं दशकम् । भवत्यभावाविदुरा हि गोपास्तरुत्रपातादिकपत्र गोष्ठे । अहेतुमुत्पातगणं विशङ्कय प्रयातुमन्यत्र मनो वितेतुः ॥ १ ॥ भवदिति । भवताभावाविंदुरा अविदितभवत्स्वरूपैश्वर्याः केवलं मर्त्यबु- द्धयः तरुमपातादिक महेतुत्वादुत्पातगणं दुनिमित्तौघं विशङ्कय ॥ १ ॥ तत्रोपनन्दाभिधगोपवर्यो जग भवत्प्रेरणयैव नूनम् | इतः प्रतीच्यां विपिनं मनो वृन्दावनं नाम विराजतीति ॥ २ ॥ तत्रेति । तत्र तेषु गोपेषपनन्दाभिधो गोपवर्य इति अगाबुवाच | तत्तु भवत्प्रेरणयैव नूनं निश्चिनोमि ॥ २ ॥ बृहद्वनं तत् खलु नन्दमुख्या विधाय गौष्टीनमथ क्षणेन । स्वदन्वितत्वज्जननीनिविटारियानानुगता विचेलुः ॥ ३ ॥ बृहदिति | नन्दमुख्या नन्दादयो गोपाः । यत्रस्थो भगवानेतावन्तं कालं क्रीडितवान्, तत् खलु बृहद्वनं नाम देशं गौष्टीनं भूतपूर्वगोस्थानं विधाथ कृत्वा बृहद्वनाख्यं पूर्वगोष्ठं बिहायेत्यर्थः । त्वदन्वितेति । रामकृष्णान्वितयशोदारोहिणी- निविष्टमत एव गरिष्ठं महनीयं यानं शकटमनुगता गोपा विलुर्जग्मुः || ३ || अनोमनोज्ञध्वनिधेनुपालीखुरप्रणादान्तरतो वधूभिः । भवद्विनोदालपिताक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यम् ॥ ४ ॥ अन इति । अनसः शकटस्य मनोज्ञो यो ध्वनिः, यश्च धेनुपाल्या: पशु-