पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यमलार्जुनभञ्जनवर्णनम् । अतन्द्रमिन्द्रद्रुयुगं तथाविधं समेयुषा मन्थरगामिना त्वया । तिरायितोलूखलरोधनिर्धुती चिराय जीण परिपातितौ तरू ॥ ६ ॥ दशकम् - ४८] L - १८३ अतन्द्रमिति । तथाविधं यमलमिन्द्रद्रुयुगमर्जुनतरुयुग्ममतन्द्रं सोत्साहं यथा भवति तथा उलूखलाकर्षणान्मन्थरगामिना मन्दगामिना समेयुषा प्राप्तवता तिरायितस्य तिर्यग्गतस्योलखलस्य रोधेन निर्धुतौ निर्भिन्नमूलों चिराय जीर्णो पुराणौ परिपातितौ सर्वतः प्रसुतशा खोपशाखतया पातितौ ॥ ६ ॥ अभाजि शाखिद्वितयं यदा त्वया तदैव तद्गर्भतलान्निरेयुषा । महात्विषा यक्षयुगेन तत्क्षणाभाजि गोविन्द ! भवानपि स्तवैः ॥ ७ ॥ अभाजीति । त्वया शाखिद्वितयं यदाभाजि भमं, तदा तद्गर्भतलाच्छा- खिद्वितयान्तर्भागान्निरेयुषा निर्गतेन महती दिङ् यस्य तेन यक्षयुगेन स्तवैः स्तोत्रैर्भवानध्यभाजि सेवितः । अत्र भग्नं शाखिद्वितयं पुरुषरूपं गृहीत्वा प्रत्युप- चकारेति प्रतीयते ॥ ७ ॥ इहान्यभक्तोऽपि समेष्यति क्रमाद् भवन्तमेतौ खलु रुद्रसेवकौ । मुनिप्रसादाद् भवदघिमागतौ गतौ वृणानौ खलु भक्तिमुत्तमाम् ||८|| इहेति । इह जगत्यन्येषां त्रिगुणद्विगुणमूर्तीनां ब्रह्मगिरिशादीनां भक्तः 'सेवकोsपि क्रमादधिकारक्रमेण भवन्तं शुद्धसत्त्वमूर्ति समेष्यति भजनाधिकारी भविष्यति खलु निश्चितम् । कुत इत्यत आह - एताविति । उत्तमां प्रेमलक्षणां भक्तिं वृणानौ प्रार्थयन्तौ ॥ ८ ॥ . ततस्तरूद्दारणदारुणारत्रकम्पिसम्पातिनि गोपमण्डले । विलज्जितत्वज्जननीमुखेक्षिणा व्यमोक्षि नन्देन भवान् विमोक्षदः ॥९॥ तत इति । तर्वोरुहारणं भञ्जनं तज्जनितेन दारुणेनारवेण प्रकम्पिसम्पा- तिनि केदं किमिदमिति ससम्ममागमनशीले सति बन्धनानुशयेन विलंजिताया स्त्वज्जनन्याः 'किं कृतं यशोदे ! त्वया, अहो अविमृश्यकारिता भवत्या' इत्यभि- मायगर्भ मुखेक्षिणा नन्देन भवान्ं व्यमोक्षि पाशचन्धनान्मोचितः ॥ ९॥