पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये मुदा सुरौघैस्त्वमुदारसम्म दैरुदीर्य दामोदर इत्यभितः । मृदूदर: स्वैरमुलूखले लगन्जदूरतो द्वौ ककुभावुदैक्षथाः ॥ १॥ सुदेति । मागेवोदारसम्मदैः प्रवृद्धसन्तोषैः सुरौघैर्दामोदरे बद्धत्वाद्धेतों- मोदर इत्युदीर्य सम्बोध्य मुदाभिष्टुतः मृदु बन्धनायोग्यमुदरं यस्य स त्वं स्वैरं यथासुखं लगन् लग्नः सन् ककुभौ वृक्षावुदैक्षथाः दृष्टवानसि ॥ १ ॥ कुबेरस्नुर्नलकूबराभिषः परो मणिग्रीव इति प्रथां गतः । महेश सेवाधिगतश्रियोन्मदौ चिरं किल त्वद्विमुखावखेलताम् ॥ २ ॥ a कुबेरेति । परोऽन्यः सुतो मणिग्रीव इति प्रथां प्रसिद्धिं गतः । महेशस्य शिवस्य सेवयाधिगतया प्राप्तया श्रियोन्मदौ प्रवृद्धमदौ त्वद्विमुखौ विष्णुविभुखा- बखेलतां चेरतुः किल ॥ २ ॥ सुरापगायां किल तौ मदोत्कटौ सुरापगायद्वहुयौवतादृतौ । विवाससौ केलिपरौ स नारदो भवत्पदैकप्रवणो निरैक्षत ॥ ३ ॥ सुरेति । सुरापगायां गङ्गायां सुरापेन गायता बहुना यौवतेन युवतिसम्- हेनावृतौ परिवारितौ भवत्पद एकस्मिन् प्रवणो दत्तहृदयो निरैक्षत दृष्टवान् ॥ ३ ॥ भिया प्रियालोकमुपात्तवाससं पुरो निरीक्ष्यापि मदान्धचेतसौ । इमौ भवद्भक्त्युपशान्तिसिद्धये मुनिर्जगौ शान्तिमृते कुतः सुखम् ॥ ४ ॥ भियेति । मिया शापभयेनोपात्तवाससं घृतस्वस्ववसनं प्रियालोकं निजस्त्री- समूहम् । भवद्भक्तिर्विष्णुभक्तिः, उपशान्तिरीदृशकर्मणो मनसो निग्रहणं, तयोः सिद्धये मुनिर्नारदः जगौ शप्तवान् । ननु शान्त्या किं फलं तत्राह- शान्ति- मिति | ऋदिन सुखं मोक्षः ॥ ४ ॥ 1 युवामवासौ ककुभात्मतां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुतम् । इतीरितौ तौ भवदीक्षणस्पृहां गतौ व्रजान्ते ककुभौ बभूवतुः ॥ ५ ॥ युवामिति । ककुमात्मतामर्जुनतरुयुम्मरूपताम् । अथ हरिं श्रीकृष्णं निरीक्ष्य स्वं पदं कुबेरान्तिकमासुतं प्रामुतम् ॥ १ ॥